________________
वंदे सदा लब्धिसूरिम्
(इन्द्रवज्रा) श्री जैन शास्त्रांबुनिधिं प्रविश्य, ज्ञानादि रत्नं त्रितयं विशुद्धम् । संप्राप्य दत्तं भविनां शिवाय, वंदे सदा तं गुरु लब्धि सूरिम् ॥ १ ॥ यस्याभिधानं श्रमणेषु मुख्यं, विशुद्ध गात्रं शुचि नेत्रयुग्मम् । धृत्वा जिनाज्ञां शिव साधकं तं, श्री लब्धि सूरिं शरणं प्रपद्ये ॥ २ ॥ योगे प्रवीणं नत देववृन्दं, सद्बुद्धिगेहं जिन शास्त्रदक्षम् । संसार वार्धि तरितुं समर्थम्, तं लब्धिसूरिं प्रणमामि नित्यम् ॥ ३ ॥ स्वाध्याय मग्नं गुणरत्न वार्धिं, व्याख्यानदक्षं भवताप नीरम् । .. वादीभसिंहं कविवंश सूर्य, तं लब्धिसूरिं प्रणमामि नीत्यम् ॥ ४ ॥
श्री लब्धि गुरु स्तुति विंशिका
(इन्द्रवज्रा) पृथ्व्यां प्रसिद्धो जिनशास्त्रवेत्ता, सद्ध्यानमग्नः परमोच्च त्यागी । विद्वत्सु धूर्यो बहु लब्धि धारी, सिद्धिं स दद्याद् गुरु लब्धिसूरिः ॥ १ ॥ श्री जैनसंघे यति वृन्द मध्ये, मान्य सदैवोच्च पदे मुनीशः । नम्रातिनम्रो विनयेन युक्तः, दधाद्गुणान्मे गुरु लब्धि सूरिः ॥ २ ॥ सध्यान मूर्ति र्जितमोहशत्रु, जेतुं समर्थः पटु वादि वृन्दम् । शस्तेषु कार्येषु सदा प्रवृत्तः, सूरीश लब्धि र्वितनोतु शुद्धिम् ॥ ३ ॥ यस्याननाब्जे मम नेत्र युग्मं, भृगायते सद्गुणराशिमाप्तुम् । हंसायते यच्चरणे ममान्तः, भद्रं करोतु प्रभु लब्धि सूरिः ॥ ४ ॥ व्यक्तप्रभावः कविवंशरत्नः, ज्ञानस्य कोषो यतिवृन्द मान्यः । मांसाशिबोधाय कृत प्रयत्नो, जीयाजगत्यां स तु लब्धिसूरिः ॥ ५ ॥ जैनीय दीक्षा प्रतिबन्ध तन्त्रं, श्री पट्टनाख्ये नगरे विछिन्नम् । तेनैव लब्धातिमनोज्ञ कीर्ति, स्तं लब्धिसूरिं मनसा स्मरामि ॥ ६ ॥ हर्तुं क्षमं मोहविषं जगत्यां, यस्याभिधानं किल मन्त्र तुल्यम् ।। दातुं समर्थश्च शिवस्य सौख्यं, सार्थाधिपो मेऽस्तु स लब्धि सूरिः ॥ ७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org