________________
15
वैराग्य पूर्ण हृदयेन विमुच्य भूतिम्, हर्षेण संयम पथं स्वयमेव धृत्वा । ध्यानानलेन भव कर्म विदह्य पूर्णम्, प्राप्तस्त्वयेश ! सुखदो विभवश्शिवस्य ॥ २३ ॥ त्वद् दीप्तिमत्सु वदनं प्रविलोक्य नाथ! गानेऽलगत् मम मनो न हि तत्र चित्रम् । यन्मुंज मञ्जयति किं न हि चैत्र मासे, मज्वाम्र मज्जरिमुपेत्य मधुस्वरी ही ॥ २४ ॥ शुभ्राणुभि विरचितः कलधौत देहः तस्यौजसा वियति सूर्य इतोऽवसन्नः । चंद्रोऽपि मक्षु गगने त्रपया जगाम, यावत् शशांकतपनो जयतात् जिनेन्द्र ! ॥ २५ ॥
(शार्दूलविक्रीडितम) रागद्वेष हरी भवाब्धितरणी, भद्रंकरी भासुरा, मोहध्वान्तहरी गुणौघ नगरी चंद्रानना निर्मला । संसारातिहरी समुन्नतिकरी शान्ति प्रदा सर्वदा, भव्यानां प्रतिमा जिनस्य भवतु श्रेष्ठामला सौख्यदा ॥ २६ ॥
(वसंततिलका) लीना तवात्म कमले जिन लब्धि हेम्नः देदीप्यमान गुण भूषण भूषितांगा । भद्रप्रदं प्रवर विक्रम पूर्ण चित्तम्, वीक्ष्यैत्य केवल रमा निज कल्प वेत्री ॥ २७॥ सद्भाव पूर्ण मनसा भव कर्म हर्तुम्, पार्श्वद्यनंत सुमतीश्वर शान्ति वीरान् । नत्वा तु 'कल्पयशसा' मुनिना गुणाब्धेः व्यावर्णिता स्तुतिरयं तु गुणान्गृहीत्वा ॥ २८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org