________________
विभ्राजते न रंजनी शशिनं विना हि, सूर्यं विना नहि दिनं किल राजते हि । पुष्पैर्विनोपविपिनं न विभाति नाथ, ! प्राणास्तथैव न विभान्ति विना त्वया मे ॥ ११ ॥ देवेन्द्र नाथ ! नत शक्र किरीट लग्न, रत्नावली द्युति विवृद्धिकरांघ्रिकान्त्या । संसारवर्ति भविनां दुरितौघ हर्तः, मोक्षं प्रयच्छ सपदीति ममैक वांछा ॥ १२ ॥ मौलिं विना नरपति लभते न शोभाम, वृक्षाः फलन्ति न जलेन विना जिनेश ! स्नेहं विना द्युतिमुपैति यथा न दीपः, विन्दे तथा तव विना कृपया शिवं किम् ॥ १३ ॥ वक्त्रे सहस्त्र रसनोऽपि शशांक तुल्यान्, कोऽस्ति क्षमः तव गुणान् वदितुं मनोज्ञान्। कोटी करैरपि महोदधि रत्न राशीन्, कोऽस्ति क्षमो गणयितुं जगतीश! मर्त्यः ॥ १४ ॥ यस्य क्रमौ शिशु दिवाकर तुल्य रक्तौ, भव्यांबुजं जगति येन विकासितं द्राक् । लोकेषु यो विजयते निज कर्म हत्वा, सूर्यो यथा हि तिमिरं जयति प्रकामम् ॥ १५ ॥ क्रोधाग्नि वारिधर! मोहरजांसि वायो!, मानाद्रि वज्र! खलु लोभ भुजंग बभ्रो ! मायोर्वरा सुखनने हि खनित्र तुल्य !, रागारि नाशक ! नमामि पदे त्वदीये ॥ १६ ॥ रीत्या कया भव विधायक कर्मशत्रुः, शस्त्रं विनापि निहतो वद सत्यमार्गम् । येनामलं शिवपदं तदरीनिहत्य, विन्देय शिघ्रमहमप्यमरेन्द्र नाथ ! ॥ १७ ॥ लब्धं मया हि नर जन्म सुपुण्ययोगाद, रम्यं तथापि न करोमि शिवाय यत्नम् । मूढेन हारितमिदं विषयातिसक्त्या, दत्वा सुबुद्धिमथ तारय दीनबंधो ! ॥ १८ ॥ कृत्वा विना प्रहरणादपि कर्मयुद्धम्, ज्ञानोत्तमं सकल वस्तु विधानकारम् ! प्राप्य प्रबोध्य भविनः वचनैर्मनोज्ञैः, लब्धं त्वया शिवमतो जयसि जगत्याम् ॥ १९ ॥ भावेन भक्तिकृदनन्तभवाम्बुराशेः, कर्म प्रमाW सुभगो हि प्रयाति पारम् ! सौख्यं शिवस्य लभते न च वक्त्र वाच्यम्, त्वद् भक्तिरेव किल तस्मिन्निशैक हेतुः ॥२०॥ तुभ्यं नमो जिन ! कुलाभ्र निशेश्वराय, तुभ्यं नमो भवि सरोज सरोवराय । तुभ्यं नमो भुवन पद्म दिवाकराय, तुभ्यं नमो जगति कल्प महीरूहाय ॥ २१ ॥ वैराग्य वारि निवहेन भवस्य हेतुम, संहृत्य राग चिकलं सुविशुद्धजातः ! सिद्धौकसि स्फटिकजे स्थितवानसित्वम्, मां त्वद्गृहं नय विभो! विलसेयमिद्धम् ॥२२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org