________________
श्री जिनेन्द्र सप्तविंशिका
(वसंततिलका) धृत्वा सुसंयम पथं विभवं विमुच्य, ध्यानेन केवलमुपाय॑ विभो ! त्वया हि । भूमौ कृतो भविजनेष्वधिकोपकारः, भक्त्या ततः तव पदे प्रणमामि नित्यम् ॥ १ ॥ आयाम्यहं प्रतिदिनं तव मंदिरे यत्, पश्यत् क्षणेन तव वक्त्र विधुं जिनेश ! । प्राप्नोति मे शुचि मनः कमलं विकासम्, दृष्ट्वा यथैव कुमुदं शशिनं सदैव ॥ २ ॥ कोटी भवे भ्रमणतः तव वक्त्र चंद्रम्, प्रेक्ष्याद्य चेतसि ममोद्भवतीश हर्षः । आनंददः सुखकरो जलधौ तरंगः, वीक्ष्येन्दुमुद्भवति नाथ ! यथा तथैव ॥ ३ ॥ गंभीरतामनुपमां गुण रत्न राशिम्, ज्ञानं विशालमतुलं त्वयि नाथ ! पश्यत् । स्वामिन् ! महेश पुरुषोत्तम ब्रह्मकामान्, त्यक्त्वा मनोभजति मे तव नाम मंत्रम् ॥ ४ ॥ सर्वज्ञ ! देव! जगदीश! सुरेन्द्र वंद्य!, संसार मुक्त! जिन! निर्जित कर्म वृंद ! । अर्हन् ! गुणार्णव! कृपेश! कृपां विधाय, आगत्य मे हृदि दिशेस्तव रूप मुच्चैः ॥ ५ ॥ त्रैलोक्य नाथ ! विमलं वदानांबुजं ते, दृष्ट्वा प्रमोदमुपयान्ति सुरासुरेन्द्राः आगत्य तेऽत्र तव पादकजस्य नित्यम्, कुर्वन्ति भक्तिमतुलां निज कर्म हन्तुम् ॥ ६ ॥ भ्रान्तं मया भववने सुख वारि लब्धुम्, तेन प्रभो किल बहु श्रमितोस्मि किंतु । प्राप्तं न किंचिदपि वीक्ष्य मरीचिकां हि, धावन् मृगेण, विपिने तु यथा तथैव ॥ ७ ॥ विश्वप्रहौ सुख जल ग्रहृणोत्सुकस्य, त्वं रक्षणं कुरु हि मे पततो जडस्य । कूपे पतन्तमिह वीक्ष्य शिशुं स्वकीयम्, स्नेहादुपेत्य जननी किमुनावतीष्ठम् ॥ ८ ॥ धृत्वा सुसंयम पथं किल कर्महत्वा, मोक्षं गते त्वयि विभो ! परिपूर्ण विश्वम् । शोकार्णवे तु पतितं तव दर्शनं द्राक्, दत्वा पुनः किल तदुध्ध्रियतां ममाशा ॥ ९ ॥ ऋद्धिं विमुच्य सकलां सुपथं गृहीत्वा, शत्रूनिहत्य शुचि केवलमर्जयित्वा । प्रस्थापितं सुखकरं शिवदं सुतीर्थम्, सेवे ततो भ्रमरवत्तु पदांबुजं ते ॥ १० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org