________________
संपूर्णचंद्र ! तव वक्त्रकजं तु दृष्ट्वा, पर्युल्लसन्ति हृदयानि शरीरभाजाम् । जानासि विश्व विषयान् शुभ चेतसा त्वम्, मां मोचयासु विमलेश्वर! मोहपाशात् ॥ १३ ॥ वाणी सुधा मुखकजं पदपंकजं ते, आह्लादयन्ति हृदयानि सुरासुराणाम् । मुह्यन्त्यनंत! तव वर्मणि विश्वसत्वाः, कान्त प्रसून रजसि भ्रमरा यथैव ॥ १४ ॥ देवासुरैर्जगति पूजित पाद पद्म ! मे पूजनात् तव गुणस्य च जन्म धन्यम् ।। ध्वस्तो ममाघ निचयो जिन! दर्शनात्ते, हेतुः शिवस्य खलु धर्म जिनेश्वर! त्वम् ॥ १५ ॥ पाताल देव नरलोक निवासि सत्वाः, नित्यं स्मरन्ति मनसा तव नाम मंत्रम् । त्वं शान्तिनाथ भगवन्! श्रुणु मे स्पृहैका, मोक्षस्य भावममलं सततं कुरुष्व ॥ १६ ॥ यद्यैष्यति मयि जिनेश्वर ! ते गुणेभ्यः, एको गुणो मम तदा तमसो वितानम् । .. नूनं हनिष्यति न मेऽत्र भवेत्तु शंका, श्री कुन्थुनाथ! इति विज्ञपयाम्यहं त्वाम् ॥ १७ ॥ मन्ये मया नहि कृता जिन देव पूजा, शुद्धं न शीलममलं न तपोभि तप्तम् । सत्यं त्यजामि तव मार्गमतिक्रमामि, भ्रान्त्यारनाथ! कृपया परिपाहि मां त्वम् ॥ १८ ॥ बुद्धि प्रभा तव विभो ! न हि चिंतनीया, सर्वांशवो दिनकरस्य तयाभिभूताः । जन्तोः क्षणेन मनसः ननु पश्यति त्वम्, भावं समस्तमपि मल्लिजिनेश! नित्यम् ॥१९ ॥ ज्ञानं विभाति विमलं त्वयि नाथ ! तेन, त्वामाश्रयन्ति विबुध मतिमाप्तुमच्छाम्, लाभाय तन्मति मणेस्तव पादपद्ममुज्झाम्यहं न मुनिसुव्रत ! मुक्तिनाथ ! ॥ २० ॥ संपूर्ण शुभ्र गुणकेलि निशान्त ! नाथ ! श्रेयस्करं जगति नाम. तवेश ! जन्तो ।
र्नाम्ना हि ते मुनिप! मोह विषं प्रयाति, नामैव मेऽस्तु नमिनाथ! तु ते सुखाय ॥ २१ ॥ तुभ्यं नमो जिन ! विशुद्ध मुखांबुजाय, तुभ्यं नमो जिन ! सदा भव तारकाय । तुभ्यं नमो जिन ! सुरासुर पूजिताय, तुभ्यं नमः शिवसुखाय च नेमिनाथ ! ॥ २२ ॥ देवेन्द्र वंद्य ! जगदीश्वर ! पार्श्वनाथ !, संसार तारक ! सुरासुरनाथ नाथ ! ।। दुष्टातिदुष्टभवसंचित कर्म हत्वा, निस्तारयाशु भव तोयनिधे र्दयालो ! ॥ २३ ॥ नामापि ते त्वमिव भद्रकरं जनानाम्, सत्वा यतस्तव विभो ! ह्रदिनाम मन्त्रम् । धृत्वा तरन्ति भयदं भवसागरं द्राक्, सिद्धार्थनंदन ! भजे तव नाम तस्मात् ॥ २४ ॥ आत्माम्बुजे सकल लब्धि निधानयुक्तम्, सद्विक्रमेण विजितात्मरिपुं शमीशम् ।। श्री स्थूलभद्र सदनं जिनराज वृन्दम्, वंदे सदा विमल "कल्पयशो"ऽभिरामम् ॥२५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org