________________
जिन गुण चतुर्विंशतिका
(वसंततिलका) विश्वेश ! नाथ ! भविनां सततं शरण्य ! ज्ञानामृतं तव पिबन्ति सदैव सत्वाः । नाभेय देव तव चारु पदारविंदम्, दृष्ट्वा सुरासुर नराः प्रणमन्ति नित्यम् ॥ १ ॥ संसार रोग हरणे पटुवैद्य ! योगिन् ! आयुर्मुनींद्र ! मम याति तथापि नाशाः । दुःखादयोऽजित जिनेश! न मां त्यजन्ति, कस्याग्रतः कथय नाथ! निवेदयामि ॥ २ ॥ निर्मान ! निर्मम ! निरंजन ! निर्विकार ! सर्वे गुणास्तव वपुः सदने रमन्ते, देवांगना अपि नमन्ति पदारविंदम्, प्रेम्णा स्तुवन्ति जिन संभव ! ताः सदैव ॥ ३ ॥ सर्वज्ञ ! जन्म जलधौ विषयेन सौख्यम, लब्धं यते तु जगदीश ! कथं लभेय ।। आगत्य मे भ्रममिदं हृदये निहत्य, त्वं देहि मुक्तिमभिनंदन ! सत्वरं मे ॥ ४ ॥ त्यक्त्वा विभो! सकल वैभवमाप्य दीक्षाम्, भ्रांत्वा प्रभो! प्रतिवनं विविधै स्तपोभिः। हत्वा त्वयान्तर रिपुं शिवसद्म लेभे, तस्मादहं शुभशिवं सुमतीश ! याचे ॥ ५ ॥ रक्तं प्रभात समयस्य रवेः समानम्, क्रोधेन तप्तमिव कर्म रिपून्विनंष्टुम् ।। सत्वेन केसरि समं कज कोमलं च, पद्मप्रभुं भवहरं प्रणमामि भक्त्या ॥ ६ ॥ ज्ञानादि शुभ्र गुण मंडल सद्म! नाथ ! रागादयो नहि विभो ! त्ययि लेशमात्रम् । कल्याणसागर! शिवंकर! सर्व जन्तोः आहत्य कर्म मम देहि सुपार्श्व! मुक्तिम् ॥ ७ ॥ सौम्या कलंक. रहिता भुवने प्रसिद्धा वक्त्र प्रभा तव निशाकर दीप्ति तुल्या । चित्तं विकार रहितं कृपया परीतम्, मुक्ति प्रदो जगति चंद्रविभो । त्वमेकः ॥ ८ ॥ सिंहासने तव वपुर्विभवेन युक्तम्, विभ्राजते स्फुटित सूर्य समं त्रिलोके । भव्याम्बुजं तव गुणाश्च विकासयन्ति, पोतो भवान् सुविधिनाथ ! भवं तरीतुम् ॥ ९ ॥ स्वामिन् जगद् विमल कृच्चरणाम्बुजं ते, नत्वा सदैव सकलामर मर्त्यनार्यः । गन्तुं शिवस्य सदनं जिन! पूजयन्ति, त्वं श्रेष्ठ मोक्ष पथि शीतल! सार्थवाहः ॥ १० ॥ हन्तुं तमो जगति भानुरसि प्रभो त्वम् ! ध्याने सुमेरुरिव निश्चल मनसस्त्वम् । दावानलो भववनस्य विभो! सदात्वम्, श्रेयांस! तेन तव नाम सदा भजेऽहम् ॥ ११ ॥ धर्मोपदेश समये समितौ तवेश ! श्रोतुं गीरं सुर नरादय आव्रजन्ति । श्रुत्वात्मनः प्रबल पाप ततिं वमन्ति, ते वासुपूज्य ! वचसो महिमा प्रकृष्टः ॥ १२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org