________________
श्री शंखेश्वर पार्श्वनाथ स्तुत्यष्टकम् चंद्रांशुना शुभ मनोज्ञ मूर्तिः, शंखेशपार्श्वस्य विनिर्मितेव । यत्पूजकः मोक्षपदं लभन्ते, तस्माच्च सा कामगवी वरिष्ठा ॥ १ ॥ संसार लीलां मनसा विमुच्य, कंदर्प माया विजिता त्वयैव । निर्वाण पुर्याः पथ दर्शकस्त्वम्, त्वां नौमि शंखेश्वरपार्श्व ! नित्यम् ॥ २ ॥ श्रुत्वात्र माहात्म्य मनुत्तमं ते, संसार दुःखात् खलु मोचनाय । आगत्य लोका स्तव मंदिरे त्वाम्, शंखेशपार्श्व ! प्रणमन्ति भक्त्या ॥ ३ ॥ सौम्याति सौम्यं सित. वर्ण युक्तं, दृष्ट्वाननं चंद्रमसोऽधिकं ते । स वीडया किं नभसीव चंद्रः, यात्तस्तु शंखेश्वर पार्श्वनाथ ! ॥ ४ ॥ सिद्धोऽसि बुद्धोऽसि निरंजनोऽसि, धन्योऽसि मुक्तोऽसि जिनेश्वरोऽसि। ब्रह्मा विधाता त्वमनंग शत्रुः रव्यातोऽसि शंखेश्वरपार्श्व ! लोके ॥ ५ ॥
: वसंततिलका : पिता त्वमेव सुखदा जननी त्वमेव, त्राता त्वमेव दिनबन्धुरसि त्वमेव । वात्सल्य नीरधिरसि त्वमुपासनीयः, शंखेशपार्श्व ! भवसागर नौ स्त्वमेव ॥ ६ ॥ शंखेश्वरस्थ मुवि विश्रुतपार्श्वनाथ ! हृद्युल्लसन्ति मनुजा स्तव दर्शनेन । डिभ्मो यथा विमलचंद्रविलोकनेन, प्राप्नोति हर्षमतुलं हृदये विशुद्धे ॥ ७ ॥ यस्याभिधां मनसि ये मनुजाः स्मरन्ति, नो रोग शोक भय निर्बलता प्रयान्ति। ते चाप्नुवन्त्यनुपमं शिवसौरव्यधाम, शंखेशपार्श्वमनिशं प्रणमाम्यहं तम् ॥ ८ ॥ आत्मांबुजं विमलकृत् शिवलब्धिदं च, ये स्थूलभद्र दमिदं शुभ विक्रमेण ।। स्तोत्रं तु 'कल्पयशसा' रचितं पठन्ति, शंखेशपार्श्व ! तव ते शिवशं लभन्ते ॥९॥
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International