________________
जैन- दर्शने आत्मद्रव्य - विवेचना
• डॉ. एम० पी० पटैरिया
33333333833333333333333
यद्यपि इमे प्राणाः दशविधाः परं मूलतश्चातुर्विध्यं भजन्ते । तथाहि - बलप्राणाः, इन्द्रि यप्राणाः, आयुः प्राणाः, श्वासोच्छ्वासप्राणाश्चेति ।
3.凍凍凍凍
आत्मशब्दस्य व्युत्पत्ति :
जैनदर्शने षड्द्रयेषु प्रमुखं द्रव्यं जीवाख्यम् । अन्यैः अजीवपदार्थैः सह तस्यैव संयोगादस्य विश्वस्य विस्तारो जायते । तथा च अयं विश्वव्यापारः सततं प्रचलमानः इह दरीदृश्यते ।
अयं जीवः आत्मपदेनापि व्यवहियते । अतएव जैनदार्शनिकैः जीवात्मनोः अभेदेन यत्र कुत्रचित् जीवस्य विवेचनं कृतम्, तत्र 'आत्म' - पदेनापि तद्बोधः कारितः । अतोऽत्र उभयोरपि शब्दयोः व्युत्पत्तिः जैनग्रन्थानुमारं प्रदीयते ।
अतति-गच्छति -जानाति इति आत्मा । 'सर्वे गत्यर्थाः ज्ञानार्थाः' इति वचनात् गमनशब्देन अत्र ज्ञानं भण्यते । अर्थात् शुभाशुभरूपैः काय - वाङ् – मनोव्यापारैः यथासम्भवं तीव्र- मन्दादिरूपेण ज्ञानादिगुणेषु आ-समन्ताद् अतति - वर्तते यः स 'आत्मा' इत्युच्यते ।
अथवा उत्पाद - व्यय - ध्रौव्यत्रिकैः आसमन्ताद् वर्तते यः से आत्मेति ।
Jain Education International
बलप्राणाः काय-वाङ्-मनोभेदात् त्रिविधाः । स्पर्शन - रसन-प्राण - चक्षुः श्रोत्रभेदाद् इन्द्रियप्राणाः पञ्चवविधाः । एते अष्टौ प्राणाः श्वासोच्छ्वास- आयुस्सहिताः दशविधाः भवन्ति ।
अत्र
इन्द्रियैः . अगोचराः ये शुद्धचैतन्यप्राणाः तत्प्रतिपक्षभूताः क्षायोपशमिकाः इन्द्रियप्राणाः ।
अनन्तवीर्यरूपाश्च ये बलप्राणास्तेषामनन्तभागेषु एकभागप्रमाणाः काय - वाङ् – मनःप्राणाः । अनाद्यनन्तशुद्धचैतन्यात्मकाः (ज्ञानरूपाः) ये तद्विपरीतलक्षणाः साद्यन्ताः आयुः प्राणाः श्वासोच्छ्वास - आवागमन क्लेशरहिताः ये शुद्धचित्प्राणाः, तद्विपरीताः श्वासोच्छ्वासप्राणाः । *
एवं
प्राणाः,
6 'जीव' शब्द व्याख्यायद्भिः जैनाचार्यैः अभिहितम् - चतुर्भिः प्राणैः यो जीवति, अजीवत्, जीविष्यति च सः जीवः । अर्थात्, कालिकजीवनगुणयुक्तो जीव इति ।
१. बृहद् द्रव्य संग्रहे - ५७२ पञ्चास्तिकाये - ३० ३. बृहद् द्रव्य संग्रहे - ३
-
व्यवहारनयेन यथासम्भवं चतुर्भिः प्राणैर्युक्तो जीवः ।
निश्चयनयेन तु चेतनालक्षणो जीवः । इयं चेतना संसारिषु मुक्तेषु चापि प्राप्यते ।
For Personal & Private Use Only
www.jalnelibrary.org