________________
२३
चतुर्थे चाह्निके करणाधिकरणस्य वर्णनं स्वरूपं तथा कर्मणः स्वरूपमन्ये दार्शनिकाः केन केन रूपेण स्वीकुर्वन्तीति बोधितम् ।
विधाय ग्रन्थः पूर्णतां नीतः ।
अस्य टीका श्रीविजयसिंहसू रिणा रचिता । सत्यविजय प्रन्थमाला - क्र. २ रूपेणाहमदाबाद - तोsस्य प्रकाशनं संवृत्तम् ।
१० बृहत्सङ्ग्रहणी - सुत्रम् -
सिद्धान्त–महोदधि-श्रीचन्द्रवरीणामियं रचना त्रैलोक्शदीपिका' परनामिकाऽपि वर्तते । अस्यां जैनखगोल विषयकाः सिद्धान्ता निरूपिताः ।
यद्यपि गणितानुयोग-द्रव्यानुयोग सम्बद्धा एव विषया मुख्यत्वेनात्र चर्चितास्तथाप्येकत्र संक्षिप्तो द्रव्यानुयोगादि- चतुर्णामप्यनुयोगानां कियता चिदंशेनास्तित्वं विलोक्यते ।
श्रीजिनभद्रगणिणक्षमाश्रमण - रचितायाः 'श्रीबृहत्संग्रहण्या' इदं संक्षिप्तं रूपम् । अत्रार्थस्य प्राधान्यं गाम्भीर्यश्चानेतुं विशिष्य प्रयतितम् । स्वयं श्री चन्द्रमहर्षिणेयं वार्ता चर्चिता ।
अस्य ग्रन्थस्यानुवादो मुनिश्री यशोविजयेन महाराजेन विहितः । भाषान्तरेण सह विविधानामन्येषां ग्रन्थानामुद्वरणानां टिप्पणानि तथा सप्ततिमितानि ७० चित्राण्यप्यत्र प्रस्तुतानि सन्ति । मुक्तिकमल - मोहनमाला - कोठीपोल, बडौदा (गुज ० ) तोsस्य प्रकाशनमभूत् । ११ लोकत-निर्णय :
अनेकेषामुत्तमप्रन्थानां निर्माणकुशलानां श्री हरिभद्रसूरीणां प्रन्येऽस्मिन् प्रथमं वक्तृतृ-श्रोतॄणां योग्यतादर्शनपूर्वकमस्य जगतः स्वरूपं, आत्मनः
Jain Education International
ततः पर तेषां तेषां दर्शनानां मन्तव्यैः सह जैनदर्शनस्य मान्यता चर्चिता । जगतः स्वरूपनिरूपणमस्य भूगोलविषयं स्पृशति तद्विलोकनार्हम् ।
अस्य भाषान्तरं श्रीहंस विजयमहाराजा अकुर्वन् । श्रीहंसविजय – जैन – जैन —फी-लायब्रेरी - ग्रन्थमालायां दशमपुष्परूपेणास्य प्रकाशनं १९७८ वैक्रमे बत्सरे सम्पन्नम् ।
१२ - लोकबिन्दु: ( क्षेत्रसमासवृत्तिः )
अस्य ग्रन्थस्य निर्मता याकिनीमह० सूनु श्रोहरिभद्राचार्या विद्यन्ते । विक्रमस्य षष्ठयां शताव्यामयमुत्पन्न इति तद्विदः । अस्य नाम्नैव स्पष्टं भवति यदस्य प्रन्थस्य प्रकाशनं लोकवर्णन - प्रमुखै र्विषयैः समन्वितं विद्यत इति । श्रीबेवराख्येन वैदेश्य विदुषाऽप्यस्य स्वीय- विवरणग्रन्थे स्मरणं कृतम् ।
१३ लोक - विभागः (लोय - विभागो)
दिगम्बर - परम्परायां भौगोलिकं विषयमधिकृत्य विरचितेषु ग्रन्थेषु मन्येऽययेव ग्रन्थः प्रथमो - ऽस्ति । मूलरूपेणायं न लभ्यते ।
कुन्दकन्दकृते नियमसारे सप्तदश्यां गाथायां 'लोयविभागे सुणादव्वं' इत्युल्लेखाझायते । अस्य रचयिता सम्भवतः सर्व नन्दिः स्यात् ।
साम्प्रतं संस्कृत-पद्यात्मकोऽयं ग्रन्थः सिंहसूरिकृत उपलभ्यते । सिंहरिणैतदपि
For Personal & Private Use Only
www.jainelibrary.org