________________
चन्द्र प्रज्ञप्तेरुपरि
श्रीमलयगिर्याचार्यस्य
'चन्द्र - प्रज्ञप्त्युपाङ्ग - टोका ९५०० श्लोकप्रमाणा समुपलभ्यते ।
५ - श्रीतिलोय पण्णत्ती ( दिगम्बर ग्रन्थः)
वि. सं. ५३० तः ६६६ वर्षाणां मध्ये जातस्याचार्यस्य श्रीयतिवृषभस्येयं कृतिरस्ति । अस्यां १ - सामान्य २ - नारक ३ - भवन ४मनुष्य - तिर्यक् ५ - व्यन्तर ६ - ज्योतिष ७कल्पवासि ८ - देव ९ सिद्धानां लोकवर्णनं नवसु महाधिकारेषु विद्यते । प्रत्येकं महाधिकारे कतिपया अधिकारा अपि वर्तन्ते । ५०६७७ गाथा अत्र ग्रन्थे विद्यन्ते ।
अस्मिन् ग्रन्थेऽनेकेषां महत्त्वपूर्णानां विषयाणां सुव्यवस्थितं विवेचनं प्रस्तुतम् । अत्र मूलाचारलोकविभाग - लोकनिश्चय - ग्रन्थानां पाठान्तराण्यप्युल्लिखितानि । श्वेताम्बराणामागमैः 'सूर्य प्रज्ञप्ति - चन्द्र - प्रज्ञप्ति - जम्बूद्वीप-प्रज्ञप्तिभिः सह विषयसाम्यमप्यस्मिन् ग्रन्थे दृश्यते ।
डॉ. हीरालाल जैनोsस्य ग्रन्थस्य - विषया श्वेताम्बर श्रीजिनभद्रगणि क्षमाश्रमणस्य - बृहत्क्षेत्रसमास - बृहत्संग्रहणीभ्यां तथा नेमिचन्द्रस्य ' प्रवचन - सार - ' ग्रन्थेन सह तुलनामकरोत् । लोकविचार - मूलाचार - भगवत्या - राधना - पञ्चास्तिकाय - प्रवचनसार - समयसार - प्रभृति - ग्रन्थानां भूयस्यो गाथा 'तिलोय - पण्णत्ती' ग्रन्थस्थ - गाथाभिः साम्यं धारयन्ति ।
-
जैन-संस्कृति—संरक्षक – सङ्घ - सोलापुरतः (इ. स. १९४३ तथा १९५१ वर्षयो ) स्यं ग्रन्थः प्रकाशितः ।
२०
Jain Education International
५ - श्री बृहत्क्षेत्र - समास -प्रकरणम् आचार्य श्रीजिनभद्रगणि-क्षमाश्रमणस्य (प्रायः षष्ठशत्यां समुत्पन्नस्य) रचनेयं प्राकृतगाथासु निर्मिताऽस्ति । प्रत्येकं गाथाऽतीव सारगर्भा विद्यते, या विस्तृतं भाष्यं विना ज्ञातुं शक्या नास्ति । गूर्जरभाषान्तरेण सहास्य ग्रन्थस्य द्वयोर्भागयोः प्रकाशनं सञ्जातम् ।
प्रथमे भागे १ - 'जम्बूद्वीपाधिकारी' विद्यते तथा द्वितीयस्मिन् भागे २ - लवण - समुद्र ३—घातकीखण्ड ४ - कालोदधि-- समुद्र ५ - पुष्करा द्वीपानां वर्णनानि सन्ति । अस्मिन् सर्वा आहत्य ६५५ संख्यका गाथा वर्तन्ते । विक्रमस्य ५४१ वत्सरे समुत्पन्नोऽयं ग्रन्थकारो युग प्रधानस्य गणनायां त्रिशत्तमो युग प्रधानोऽभवत् । गणितानुयोगगर्भितोऽयं ग्रन्थः । अस्याधारेणैव 'लघुक्षेत्रसमास' ग्रन्थस्य निर्माणमक्रियत । सार्धद्वयद्वीपे स्थितानां पर्वतानां क्षेत्राणां नदीनां ब्रहाणां कुण्डानां च विस्तारायामोच्चता - गभीरता - प्रभृतीनामतीव विस्तृत्या वर्णनान्यत्र राजन्ते ।
त्रयोदश्यां शत्यां वर्तमानैः श्रीमलयगिरि: महाराजैरस्य संस्कृत टीका निर्मिता तथा विस्तृतं गूर्जरभाषात्मकं विवेचनं पंन्यासश्री नित्यानन्दविजयमहाराजैर्विहितम् । बम्बई - पालीताणा - I अहमदाबादतोऽयं ग्रन्थो लभ्यते । ६- श्रीलघुक्षेत्र समास - प्रकरणम्
चतुर्दश्यां शत्यामुत्पन्नस्य श्रीवज्रसेनसूरेः शिष्यष्यै श्रीरत्नशेखरसूरिभिरस्यां कृतौ २१३ गाथाः अंकलिहाः सन्ति । तथा क्रमश १- जम्बूद्वीपाधिकार २ - लवणसमुद्राधिकार - ३ - घातकी
For Personal & Private Use Only
www.jainelibrary.org