________________
૨૩૨
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૨-જ્ઞાનયોગશુદ્ધિ અધિકાર ९० ज्ञानमग्नस्य यच्छर्म तद्वक्तुं नैव पार्यते । नोपमेयं प्रियाश्लेषैपि", तच्चन्दनद्रवैः ।।१३।।
९१ तेजोलेश्याविवृद्धिर्या पर्यायक्रमवृद्धितः । भाषिता भगवत्यादौ सेत्थम्भूतस्य युज्यते ।।१४।।
९२ चिन्मात्रलक्षणेनान्यव्यतिरिक्तत्वमात्मनः । प्रतीयते यदश्रान्तं तदेव ज्ञानमुत्तमम् ।।१५।। ९३ शुभोपयोगरूपोऽयं, समाधिः सविकल्पकः । शुद्धोपयोगरूपस्तु', निर्विकल्पस्तदेकदृक् ।।१६।। ९४ आद्यः' सालम्बनो नाम योगोऽनालम्बनः परः । छायाया दर्पणाभावे, मुखविश्रान्तिसन्निभः ।।१७।।
१०
९५ यद दृश्य
मननीयं च यद भ
रसंलिष्टं, न
शुद्धद्रव्यलक्षणम्
।।१८।।
९६ अपदस्य पदं नास्तीत्युपक्रम्यागमे ततः' । उपाधिमात्रव्यावृत्त्या, प्रोक्तं शुद्धात्मलक्षणम् ।।१९।।
९७ यतो वाचो निवर्तन्ते , अ(ह्य)प्राप्य मनसा सह । इति श्रुतिरपि व्यक्तमेतदर्थानुभाषिणी ।।२०।।
९८ अतीन्द्रियं परं ब्रह्म, विशुद्धानुभवं विना । शास्त्रयुक्तिशतेनापि, नैव गम्यं कदाचन ।।२१।।
९९ केषां न कल्पनादी, शास्त्रक्षीरान्नगाहिनी । विरलास्तद्रसास्वादविदोऽनुभवजिह्वया ।।२२।।
१०० पश्यतु” ब्रह्म निर्द्वन्द्वं, निर्द्वन्द्वानुभवं विना । कथं लिपिमयी दृष्टिः, वाङ्मयी वा मनोमयी ।।२३।। १०१ न सुषुप्तिरमोहत्वान्नापि च स्वापजागरौ । कल्पनाशिल्पविश्रान्तेस्तुर्यानुभवो दशा ।।२४ ।।
१०२ अधिगत्याखिलं शब्दब्रह्म शास्त्रदृशा मुनिः' । स्वसंवेद्यं परं ब्रह्मानुभवैरधिगच्छति ।।२५।। १०३ ये पर्यायेषु निरतास्ते ह्यन्यसमयस्थिताः । आत्मस्वभावनिष्ठानां, ध्रुवा स्वसमयस्थितिः ।।२६ । ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org