________________
०३४९
न्यायावतार
क्षणिके
चणिकत्वसिद्धिः । तथा नित्यवादी पुनरेवं प्रमाणयति सर्वं नित्यम्, सत्त्वात्, सदसत्कालयोरर्थक्रियाविरोधात्, तल्लक्षणं सत्त्वं नावस्थां बध्नाति ततो निवर्तमानाऽनन्यशरणतया नित्यं साधयति । तदेवमेकान्तद्वयेऽपि ये हेतवस्ते युक्तेः समानतया विरुद्धं न व्यभिचरन्ति ।।२३।।
-
अथ दृष्टान्तलक्षणव्युदस्तान् दृष्टान्ताभासान् स्पष्टयति
साधर्म्येणात्र दृष्टान्तदोषा न्यायविदीरिताः । अपलक्षणहेतूत्थाः साध्यादिविकलादयः ।। २४ ।।
हारिभद्री - साधर्म्येणेत्यादि, साधनं साध्याक्रान्तमुपदर्शयितुमभिप्रेतं यस्मिंस्तत्साधर्म्यम् तेन, अत्र व्यतिकरे, दूष्यन्ते इति दोषाः, दृष्टान्ता एव दोषाः दृष्टान्तदोषाः, दृष्टान्ताभासा इत्यर्थः, न्यायविदीरिता विद्वद्भिर्गदिताः । साध्यं गम्यम्, आदिशब्दात् साधनोभयपरिग्रहः, तद्विकलास्तच्छून्याः, आदिशब्दात् संदिग्धसाध्यसाधनोभयधर्मा गृह्यन्ते । किंभूता एते इत्याह- अपगतं लक्षणं येभ्यस्ते तथा च ते हेतवश्च तेभ्य उत्थानं येषां तेऽपलक्षणहेतूत्थाः ।
तत्र साध्यविकलो यथा - भ्रान्तमनुमानम, प्रमाणत्वात्, प्रत्यक्षवत् । प्रत्यक्षस्य भ्रान्तताविकलत्वात्। साधनविकलो यथा - जाग्रत्संवेदनं भ्रान्तम्, प्रमाणत्वात्, स्वप्नसंवेदनवत् । स्वप्नसंवेदनस्य प्रमाणतावैकल्यात् । उभयविकलो यथा - नास्ति सर्वज्ञः, प्रत्यक्षाद्यनुपलब्धत्वात्, घटवत् । घटस्य सत्त्वात् प्रत्यक्षादिभिरुपलब्धेश्च । संदिग्धसाध्यधर्मो यथा - वीतरागोऽयम्, मरणधर्मत्वात्, रथ्यापुरुषवदिति । संदिग्धसाधनधर्मो यथा - मरणधर्माऽयम्, रागादिमत्त्वात्, रथ्यापुरुषवत् । संदिग्धोभयधर्मो यथा - असर्वज्ञोऽयम्, रागादिमत्त्वात्, रथ्यापुरुषवदिति । ननु परैरन्यदपि दृष्टान्ताभासत्रयमभिहितं तत्किं नोक्तम् ? तस्य दृष्टान्तदोषाभावात् ।। २४ ।।
अथ वैधर्म्यदृष्टान्ताभासान् प्रतिपादयति -
Jain Education International
वैधर्म्येणाऽत्र दृष्टान्तदोषा न्यायविदीरिताः । साध्यसाधनयुग्मानामनिवृत्तेश्च संशयात् ।। २५ ।।
हारिभद्री - वैधर्म्येत्यादि, साध्याभावः साधनाभावाक्रान्तो दर्शयितुमभिप्रेतो यस्मिंस्तद्वैधर्म्यम्, तेनात्र दृष्टान्तदोषा न्यायविदीरिता इति पूर्ववद्दत्तार्थम् । साध्यसाधनयुग्मानां गम्यगमकोभयानां अनिवृत्तेरनिवर्तनात्, चशब्दस्य व्यवहितप्रयोगात् संशयाच्च, निवृत्तिसंदेहाच्चेत्यर्थः । तदनेन षड् दृष्टान्ताभासाः सूचिताः । तद्यथा - १, साध्याव्यतिरेकी; २, साधनाव्यतिरेकी; ३, साध्यसाधनाव्यतिरेकी; तथा ४, संदिग्धसाध्यव्यतिरेकी ५, संदिग्धसाधनव्यतिरेकी; ६, संदिग्धोभयव्यतिरेकी । तत्राद्यो
For Personal & Private Use Only
www.jainelibrary.org