________________
३५००
न्यायावतार यथा - भ्रान्तमनुमानं प्रमाणत्वादित्यत्र यत्पुनर्भ्रान्तं न भवति न तत्प्रमाणं तद्यथा स्वप्नज्ञानमिति । द्वितीयो यथा-निर्विकल्पकं प्रत्यक्षम् प्रमाणत्वादित्यत्र यत्पुनः सविकल्पकं न तत् प्रमाणम्, यथाऽनुमानम्। तृतीयो यथा - नित्यानित्यः शब्दः सत्त्वादित्यत्र यः पुनर्न नित्यानित्यः स न सन्, तद्यथा घटः । चतुर्थो यथा - असर्वज्ञः कपिलः आर्यचतुष्ट्यप्रतिपादकत्वादित्यत्र यः सर्वज्ञः स आर्यसत्यचतुष्ट्यं प्रत्यपीपदत्, यथा शौद्धोदनिः । पञ्चमो यथा - अनादेयवाक्यः कश्चिद् रागादिमत्त्वात्, यः पुनरादेयवाक्यो न स रागादिमान्, यथा सुगतः । षष्ठो यथा - न वीतरागाः कपिलादयः करूणास्पदेष्वप्यकरुणापरीतचित्ततयादत्तनिजमांसशकलत्वात्, ये वीतरागास्ते करुणापरीतचित्ततया दत्तनिजमांसशकलाः, यथा बोधिसत्त्वा इति ।। ___ परैरपरेऽपि दृष्टान्ताभासास्त्रयोऽविमृश्यभाषितया दर्शिताः । तद्यथा - अव्यतिरेकः, अप्रदर्शितव्यतिरेकः, विपरीतव्यतिरेकः तेऽस्माभिरयुक्तत्वात् न दर्शिताः । तथाहि - अव्यतिरेकस्तैर्दर्शितः, यथा - अवीतरागः कश्चित्, वक्तृत्वादित्यत्र य पुनर्वीतरागो न स वक्ता, यथोपलखण्ड इति । अयुक्तश्चायम्, अव्यतिरेकिताया हेतुदोषत्वात् । तथाप्रदर्शितव्यतिरेकविपरीतव्यतिरेको वक्तुमयुक्तौ, तयोर्वक्तृदोषत्वात्, एतच्च पूर्वस्मिन्नपि भावनीयम् ।। २५ ।। अधुना साभासं दूषणमभिदधति -
वाद्युक्ते साधने प्रोक्तदोषाणामुद्भावनम् ।
दूषणं निरवद्ये तु दूषणाभासनामकम् ।। २६ ।। ___ हारिभद्री - वाद्युक्तेत्यादि, वदनशीलो वादी प्रत्यायकस्तेनोक्ते उपन्यस्ते, कस्मिन् ? साधने, साध्यते प्रतिपाद्यते प्रतीतावारोप्यते अनुमेयं येन तत्साधनम् । तच्चानेकरूपं प्राक् प्रत्यपादि । तद्यथा क्वचिद्धतुरेवैक इत्यादि । तत्रेह सम्यग्साधनस्य दूषयितुमशक्यत्वात्, साधनाभास एव तत्सामोपपत्तेः । साधनाभासमेव दूषणोपनिपातात् प्रागवस्थायामनिर्ज्ञातं सामान्येन साधनध्वनिनोक्तम्, तत्र प्रोक्तदोषाणां प्रत्यक्षादिनिराकृतपक्षासिद्धादिहेतुसाध्यादिविकलदृष्टान्ताद्युपन्यासलक्षणानामुद्भावनं प्राश्निकानां पुरतः प्रकाशनं यत् तद् दूष्यते - स्वाभिप्रेतसाध्यप्रत्यायनवैकल्यलक्षणं विकृति नीयते साधनमनेनेति दूषणम् । ___अधुना तदाभासतामाह - निर्गतं सम्यक्प्रवृत्तत्वादवद्यं पापं पक्षादिदोषलक्षणं दौष्ट्यमस्मादिति निरवद्यम्, तस्मिन् साधने वादिनोक्त इति वर्तते, तथापि मत्सरितया प्रमृद्योदरं यदविद्यमानानां दोषाणामुद्भावनं तदूषणवदाभासत इति दूषणाभासम्, तदेव नाम संज्ञा यस्य तत्तथा, समर्थसाधनोपन्यस्तत्वात् साधिते साध्ये सतामप्यपशब्दादिदोषाणां यदुद्भावनं तदपि दूषणाभासनामकमिति तुशब्देन ज्ञेयम् ।। २६ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org