SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ न्यायावतार स्ववचनबाधितो यथा- न सन्ति सर्वे भावाः ।। २१ ।। सांप्रतं हेतुलक्षणं स्मारयन् तदपास्तान् हेत्वाभासानाह - अन्यथानुपपन्नत्वं, हेतोर्लक्षणमीरितम् । तदप्रतीतिसंदेहविपर्यासैस्तदाभता ।। २२ ।। हारिभद्र - अन्यथेत्यादि, हेतोर्लक्षणमसाधारणधर्मरूपं यदीरितं गमितमनेकार्थत्वाद्वा प्रतिपादितं स्वार्थानुमानप्रस्तावे यदुतान्यथानुपपन्नत्वमिति, तस्याप्रतीतिरनध्यवसायः, संदेहो दोलायमानता, विपर्यासो वैपरीत्यनिर्णयः, अप्रतीतिश्चेत्यादिद्वन्द्वः पश्चात् तदा सह तत्पुरुषः, तैस्तदप्रतीतिसंदेहविपर्यासैः, तदाभता आभानमाभा तस्येव सम्यग्हेतोरिवाभा अस्येति तदाभस्तद्भावः तत्ता, हेत्वाभासता भवतीत्यर्थः ।। २२ ।। अधुना येन लक्षणेन यन्नामा हेत्वाभासो भवति तद्दर्शयति - असिद्धस्त्वप्रतीतो यो योऽन्यथैवोपपद्यते । विरूद्धो योऽन्यथाप्यत्र युक्तोऽनैकान्तिकः स तु ।। २३ ।। Jain Education International 7 हारिभद्री - असिद्धेत्यादि, यः कश्चिदप्रतीतः प्रतीत्याऽगोचरीकृतोऽनिश्चितः सोऽसिद्धनामा हेत्वाभासः । तुशब्दः त्रयस्यापि भेदोद्योतकः । यस्त्वन्यथैव साध्यं विनैव, विपक्ष एवेति यावत्, उपपद्यते संभवति स विरुद्धाभिधानो हेत्वाभासः । यः पुनरन्यथाऽपि साध्यविपर्ययेणापि युक्तो घटमानकः, अपिशब्दात् साध्येनापि, सोऽत्र व्यतिकरे अनैकान्तिकसंज्ञो ज्ञातव्यः । तत्र प्रतिप्राणिप्रसिद्धप्रमाणप्रतिष्ठितानेकान्तविरूद्धबुद्धिभिः कणभक्षाक्षपादबुद्धादिशिष्यकैरुपन्यस्यमानाः सर्व एव हेतवः, तद्यथा एकान्तेनानित्यः शब्दो नित्यो वा, सत्त्वात्, उत्पत्तिमत्त्वात्, कृतकत्वात्, प्रत्यभिज्ञायमानत्वात् - इत्यादयो विवक्षयासिद्धविरुद्धानैकान्तिकतां स्वीकुर्वन्ति । तथाहि - अनित्यैकान्ते तावदसिद्धाः सर्व एव हेतवः, चाक्षुषत्ववत् तेषां ध्वनावविद्यमानत्वात्, असदादिव्यवच्छेदेनाऽलीकसंवृतिविकल्पितत्वात्, पारमार्थिकत्वे त्वेकस्यानेकरूपापत्त्याऽनेकान्तवादापत्तिः। नित्यैकान्तेऽपि धर्मिणोऽत्यन्तव्यतिरिक्तानामपारमार्थिकानां वा स्वसाधनधर्माणां प्रमाणेनाप्रतीतत्वादसिद्धता द्रष्टव्या, अविनिर्लुठितरूपाणां सकलधर्माणां प्रत्यक्षादिप्रमाणप्रसिद्धत्वेन निह्नोतुमशक्यत्वात् । तथा विरुद्धतापि पक्षद्वयेऽपि निर्दिश्यमानाः सर्व एव हेतवोऽनैकान्तिकतामात्मसात्कुर्वन्ति, परस्परविरुद्धाव्यभिचारितत्वात्, समानयुक्त्युपन्यासेन विपक्षेऽपि दर्शयितुं शक्यत्वात्। अनित्यवादी नित्यवादिनं प्रति प्रमाणयति सर्वं क्षणिकम्, अक्षणि सत्त्वात्, क्रमयौगपद्याभ्यामर्थक्रियाविरोधात्, ततोऽर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्तयेदिति - ३४८ For Personal & Private Use Only www.jainelibrary.org
SR No.005549
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorSaumyangratnavijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2011
Total Pages408
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy