________________
Q/३४७
न्यायावतार 10
इतिशब्देन संबन्धस्मरणादिति ।। १९ ।। इदमत्रापि संबध्नाति - अस्यापि स्मर्यमाणे संबन्धे प्रयोगायोगादिति कुत एतदित्याह -
अन्तर्व्याप्त्यैव साध्यस्य सिद्धेर्बहिरुदाहृतिः ।
व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः ।। २० ।। हारिभद्री - अन्तरित्यादि, अन्यदा हि स्मर्यमाणे वा संबन्धे प्रयुज्येत, अगृहीते वा । यद्याद्य पक्षः, सोऽयुक्तः, यदा सर्वत्र साध्याविनाभाविनं हेतुं स्मरति प्रतिपाद्यः, तदा पक्षेऽपि तमवबुध्य कथं साध्यं न प्रतिपद्येत ? ततश्चान्तः पक्षमध्ये व्याप्तिः साधनस्य साध्याक्रान्तत्वमन्तर्व्याप्तिः, तथैव साध्यस्यगम्यस्य सिद्धेः प्रतीतेः बहिर्विवक्षितधर्मिणोऽन्यत्र दृष्टान्तधर्मिण्युदाहृतिर्व्याप्तिदर्शनरूपा व्यर्थाः निष्प्रयोजना, तत्प्रत्याय्यार्थाभावात् द्वितीयपक्षस्यापि निर्दोषतां निरस्यन्नाह - तदसद्भावेऽप्येवं संबन्धाग्रहणादन्ताप्त्यभावेऽप्येवमिति व्यथैव बहिरुदाहृतिः, न हि सहदर्शनात् क्वचित् सर्वत्र तद्रूपता सिध्यति, व्यभिचारात् । तस्मादगृहीतसंबन्धे प्रतिपाद्ये प्रमाणेन प्रतिबन्धः साध्यः, तत्सिद्धौ तत एव साध्यसिद्धरकिंचित्करी दृष्टान्तोदाहृतिरिति न्यायविदो विद्वांसोऽवबुध्यन्ते । इह शेषावयवानामुपनयनिगमनशुद्धिपञ्चकलक्षणानां संक्षिप्तरुचिसत्त्वानुग्रहपरत्वादस्य यद्यपि साक्षाल्लक्षणं नोक्तम्, तथाप्यत एव प्रतिपादितावयवत्रयाद् बुद्धिमद्भिरुन्नेयम् । यतोऽवयवापेक्षया जघन्यमध्यमोत्कृष्टास्तिस्त्रः कथा भवन्ति । तत्र हेतुप्रतिपादनमात्रं जघन्या । द्व्याद्यवयवनिवेदनं मध्यमा । संपूर्णदशावयवकथनमुत्कृष्टा ।। २० ।। ___ एवं पक्षादिलक्षणं प्रतिपाद्येदानी हेयज्ञाने सत्युपादेयं व्यक्ततरं वेद्यत इति तद्व्युदस्ताः पक्षहेतुदृष्टान्ताभासा वक्तव्याः । तत्र पक्षलक्षणव्युदस्तान् पक्षाभासानाह -
प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽस्ति लिङ्गतः ।
लोकस्ववचनाभ्यां च बाधितोऽनेकधा मतः ।। २१ ।। हारिभद्री - प्रतिपाद्येत्यादि, पक्षस्थानोपन्यस्तत्वात् तत्कार्याकरणाच्च पक्षवदाभासते इति पक्षाभासः । असावेनकधा अनेकप्रकारो मतः । कथमित्याह - प्रतिपाद्यस्य प्रतिवादिनो यः कश्चित्सिद्धः प्रतीतावारूढ एव स पक्षाभासः, साध्यस्यैव पक्षत्वात्, सिद्धस्य साधनानहत्वात्, अतिप्रसक्तेः । ___ तथाऽक्षलिङ्गतोऽध्यक्षहेतुभ्यां लोक-स्ववचनाभ्यां बाधितस्तिरस्कृतो यः स पक्षाभासः । तत्र प्रतिपाद्यसिद्धो यथा - पौद्गलिको घट इत्यादि । प्रत्यक्षबाधितो यथा - निरंशानि स्वलक्षणानि । अनुमानबाधितो यथा - नास्ति सर्वज्ञ इति । लोकबाधितो यथा - गम्या माता इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org