________________
न्यायावतार
३४६७
हेतोस्तथोपपत्त्या वा स्यात्प्रयोगोऽन्यथापि वा ।।
द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ।। १७ ।। हारिभद्री - परार्थानुमानस्य वचनरूपत्वाद् द्वैविध्यमाह - हेतोर्द्विविधः प्रयोगः स्यादिति संबन्धः । कथमित्याह - तथैव साध्यसद्भाव एवोपपत्तिर्विद्यमानता तया तथोपपत्त्या, यथाऽग्निरत्र धूमस्य तथैवोपपत्तेः । अन्यथेतिपदेऽवयवे समुदायोपचारादन्यथाऽनुपपत्तिं लक्षयति । अन्यथा साध्यव्यतिरेकेऽनुपपत्तिरविद्यमानता तयाऽन्यथानुपपत्त्यैव हेतोः प्रयोगः स्यात्, यथाऽग्निरत्र धूमान्यथानुपपत्तेः । उभयमप्येकत्र न प्रयोक्तव्यमित्याह-अन्यतरेणापि एकेनापि साध्यस्य प्रतिपिपादयिषितार्थस्य सिद्धिर्निष्पत्तिः प्रतिपाद्यप्रतीतावारोहणं भवेदिति यस्मात्, तस्मान्न द्वे अपि प्रयोक्तव्ये ।। १७ ।। अथ दृष्टान्तलक्षणावसरः । स द्वधा साधर्मेण वैधर्मेण च । तत्र साधर्म्यदृष्टान्तं स्पष्टयति
साध्यसाधनयोाप्तिर्यत्र निश्चीयतेतराम्।
साधम्र्येण स दृष्टान्तः संबन्धस्मरणान्मतः ।। १८ ।। हारिभद्री - साध्येत्यादि, दृष्टयोरवलोकितयोः साध्यसाधनयोः अन्तः परिनिष्ठितिः यस्मिन्निति दृष्टान्तः समानो धर्मोऽस्येति सधर्मा तद्भावः साधर्म्यं तेन । स किंविधो भवतीत्याह - साध्यं जिज्ञासितार्थात्मकम्, साधनं तद्गमको हेतुस्तयोः साध्यसाधनयोर्व्याप्तिरिदमनेन विना न भवतीत्येवंरूपा, यत्र क्वचिन्निश्चीयतेतरां अतिशयेन निर्णीयते सः साधर्म्यदृष्टान्तः । यथा - अग्निरत्र धूमस्य तथैवोपपत्तेः महानसवदिति। अयं चाविस्मृतप्रतिबन्धे प्रतिवादिनि न प्रयोक्तव्य इत्याह - संबन्धस्मरणादिति । यब्लोपे पञ्चमी, प्राग्गृहीतविस्मृतसंबन्धस्मरणमधिकृत्य मतोऽभिप्रेतोऽयं नीतिविदाम्, नान्यथा । यदा हि प्रतिपाद्योऽद्यापि संबन्धं साध्याविनाभावित्वलक्षणं नावबुध्यते, तदा प्रमाणेन संबन्धो ग्राहणीयः, न दृष्टान्तमात्रेण, न हि सहदर्शनादेव क्वचित्सर्वत्रेदममुना विना न भवतीति सिध्यति, अतिप्रसंगात् ।। १८ ।। इदानीं वैधर्म्यदृष्टान्तमुपदर्शयति -
साध्ये निवर्तमाने तु साधनस्याप्यसंभवः ।
ख्याप्यते यत्र दृष्टान्ते वैधhणेति स स्मृतः ।। १९ ।। हारिभद्री - साध्येत्यादि, विसदृशो धर्मोऽस्येति विधर्मा, तद्भावो वैधर्म्यम्, तेन वैधhण दृष्टान्तः । कीदृगित्याह - साध्ये गम्ये निवर्तमाने असंभवति, तुशब्दोऽवधारणार्थो भिन्नक्रमः, स च साधनस्यासंभव एवेत्यत्र द्रष्टव्यः । ख्याप्यते प्रतिपाद्यते यत्र दृष्टान्ते स वैधhण भवति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org