________________
११३०
न्यायावतार - श्लो०५
(૧) કાર્ય સ્વરૂપ- કાર્ય તે કારણપૂર્વક જ હોય છે, માટે ઉપલભ્યમાન કાર્ય કારણનો ગમક બને छ.४५ 'उपरि वृष्टो मेघो, विशिष्टपूरोपलम्भात्' भेटले, ५९८॥ मापyो युं तुं , न्यारे મુશળધાર વરસાદ પડે, ત્યારે તણખલા - લાકડી વગેરેને વહાવનારૂં , ફેનયુક્ત એવું વિશિષ્ટ પ્રકારનું પૂર જોવાય છે. આ વિશિષ્ટ પૂરરૂપ કાર્યને જોવાથી મેઘવર્ષારૂપ કારણનું અનુમાન થાય છે - આ થયું કાર્યલિંગક અનુમાન.
(२) १२५॥ २१३५:- ज्यारे ॥२९॥ ५४॥ आर्यनो ५ ( = ४९॥वना२) अने ४ नोवाय छ.४ 3 'अत्र वर्षा भावी, विशिष्टमेघोन्नतेः' भेटव, न्यारे वाहणामो मेऽभ. शमi qus
-अर्थसंप्रेक्षणनदीपूरस्य वृष्टिकार्यत्वेन पूर्वमुपलम्भात् तदुपलमम्भे सति युक्तमनुमानम् अयं नदीपूरो वृष्टिकार्यः, विशिष्टनदीपूरत्वात्, पूर्वोपलब्धविशिष्टनदीपूरवत्, पूर उभयतटव्यापकोदकसंयोगः । कारणमपि कार्यजनकत्वेन पूर्वमुपलब्धेरुपलभ्यमानं कार्यस्य लिङ्गम् । यथा विशिष्टमेघोन्नतिर्वर्षकर्मण इति । अथ कारणस्यावश्यं कार्यजनकत्वेनानुपलम्भात्, कार्याणां चानियतात् कारणादुत्पत्तेर्व्यभिचारः । तथा हि-मेघोन्नतिसद्भावेऽप्येकदा वृष्टिर्न दृष्टा, कार्यं चानियतात् कारणादुत्पद्यमानं दृष्टम् । यथा वृश्चिकाद् वृश्चिको जायते गोमयात्, सर्पाच्चेति, तत्कथं कार्यात् कारणविशेषप्रतिपत्तिः कारणाच्च कार्यविशेषस्येति ? नैतदेवम्, कारणविशेषस्य कार्यविशेषगमकत्वम्, कार्यविशेषस्य तु कारणविशेषगमकत्वमित्यभ्युपगमात् । यस्तु विद्यमानमपि विशेषं नावबुध्यते, तत्र तस्यापराधो नानुमानस्येति । तथा धूमोऽग्नेः संयोगी । अथ संयोगस्योभयनिष्ठत्वाविशेषे कथमेकं नियमेन हेतुरपरं च साध्यमिति व्यवस्था ? सत्यमिदम्, अविनाभावेऽपि समानमुत्पश्यामः । तथा हि-अविनाभावस्योभयनिष्ठत्वात् कथमेषा व्यवस्थेति । अथ यस्योपलम्भादनुमेये प्रवृत्तिस्तदेव साधनं नान्यदिति चेत्, संयोगित्वेऽपि समानमेतत् । समवायी चोष्णस्पर्शो वारिस्थं तेजो गमयतीति । विरोधी च यथा-अहिर्विस्फूर्जनविशिष्टो नकुलादेलिङ्गम्, वह्निर्वा शीताभावस्येति । नैयायिकाश्चाहुः-पूर्ववच्छेषवत्सामान्यतोऽदृष्टमित्यनेन सूत्रावयवेन तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोऽदृष्टं चेति सकलं सूत्रं लक्षयति । तत्पूर्वकं प्रत्यक्षपूर्वकं त्रिविधमिति; अन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेति । अथवा सूत्रावयवेनैव प्रकारान्तरेण त्रिविधं पदं व्याचष्टे, पूर्ववत् शेषवत् सामान्यतोऽदृष्टमिति । पूर्वं साध्यं तद्व्याप्त्या यस्यास्ति तत्पूर्ववत् । साध्यसजातीयं च शेषः, तद् यस्यास्ति तच्छेषवत् । सामान्यतश्च विपक्षेऽदृष्टम्, चशब्दात् प्रत्यक्षागमाविरुद्धं असत्प्रतिपक्षं चेति । एवं च पञ्चरूपम्, अन्वयव्यतिरेकयोरन्यतररूपाभावे च तत्तद्रूपमनुमानमिति । अथवा पूर्ववन्नाम यत्र कारणेन कार्यमनुमीयते, यथा-मेघोन्नत्या भविष्यति वृष्टिरिति । प्रयोगस्तु-अमी मेघा वृष्टिमन्तः, गम्भीरगर्जितत्वेऽचिरप्रभावत्वे च सत्युन्नतत्वात्, ये एवं ते वृष्टिमन्तः; यथा वृष्टिमत्पूर्वमेघाः, तथा चामी, तस्मात्तथा । शेषवन्नाम यत्र कार्येण कारणमनुमीयते, यथा नदीपूरदर्शनाद् वृष्टिः । प्रयोगस्तु उपरिवृष्टिमद्देशसंबन्धिनी नदी, शीघ्रतरस्रोतस्त्वे फलफेनकाष्ठादिवहनत्वे च सति पूर्णत्वात्, तदन्यनदीवत् । सामान्यतोदृष्टं नाम अकार्यकारणभूतेन यत्राविनाभाविना विशेषणेन विशेष्यमाणो धर्मो गम्यते, यथा-बलाकया सलिलमिति । प्रयोगोऽयम्बलाकाजहद्वृत्तिप्रदेशो जलवान्, बलाकावत्त्वात्, संप्रतिपन्नप्रदेशवदिति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org