________________
न्यायावतार 10
६२ दर्शनस्य तदुदयाभावात्, तथा स एव संस्कारस्तादृशार्थदर्शने नाभोगादिना वा प्रबुद्धोऽनुभूतविषयासंप्रमोषलक्षणं स्मरणमुपजनयति, अदृष्टार्थस्य पुंसः स्मरणानुपपत्तेरिति । __५१. ऊहोऽपि प्रत्यक्षानुमानासंवेद्यसाध्यार्थान्यथानुपपन्नत्वलक्षणलिङ्गसंबन्धग्रहणप्रवणः
न्यायरश्मि (ન ભૂલવા) રૂપ સ્મરણને ઉત્પન્ન કરે છે, કારણ કે જે વ્યક્તિને પૂર્વે અર્થનું દર્શન નથી થયું તેને સ્મરણ પણ થતું નથી.
આ રીતે પ્રત્યભિજ્ઞાન તથા સ્મૃતિ સંસ્કારજન્ય હોવાથી પ્રત્યક્ષભિન્ન છે અને તેથી પરોક્ષાંતર્ગત छे. (૫૧) સાધ્ય અને હેતુ વચ્ચેના અન્યથાનુપપત્તિ - સાધ્ય હોય તો જ હેતુનું હોવું અને સાધ્યના
-अर्थसंप्रेक्षण(९०) आभोगादीत्यादि । आभोगः प्रणिधानमवधानमिति यावत्, आदिशब्दादभ्यासादिपरिग्रहः । तथा च न्यायशास्त्रम्-प्रणिधाननिबन्धाभ्यासलिङ्गसादृश्यपरिग्रहाश्रयाश्रितसंबन्धानन्तर्यवियोगैककार्याविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषक्रियार्थित्वरागधर्माधर्मनिमित्तेभ्य (गौ. ३-२-४३) इति । एतद्व्याख्या च तत एव न्यायशास्त्रादवगन्तव्या, इह तु नोच्यते, सुगमत्वात्, ग्रन्थगौरवभयाच्च । अनुभूतो विषयो येन तदनुभूतविषयं ज्ञानं तस्यासंप्रमोषोऽभ्रंशो ज्ञानानुवृत्तिरिति यावत्, स एव लक्षणं यस्य तत्तथा ।
(९१) ऊहोपीत्यादि । प्रत्यक्षानुमानाभ्यामसंवेद्यः साध्यार्थान्यथानुपपन्नत्वस्वरूपो यो लिङ्गस्य साध्येन सार्धं संबन्धस्तस्यादाने सज्जस्तत्पर इति यावत् ।
-शास्त्रसंलोक(32) "आत्मनः संयोगविशेषात् संस्काराच्च स्मृतिः।" वैशे.सू. ९/२/६ । "अनुभूतविषयाऽसंप्रमोषः स्मृतिः।"
-योगसू. १/११, सांख्यतत्त्वालो.पृ.१६ ।। "प्रत्यक्षबुद्धिनिरोधे तदनुसन्धानविषयः प्रत्ययः स्मृतिः।" न्यायवा.पृ.३६६ । “स्मृतिरपि इच्छावत् पूर्वज्ञानसदृशं विज्ञानं पूर्वविज्ञानविषयं वा स्मृतिरित्युच्यते।" -शाबरभा.पृ.६५ / "स्मृतिः पुनः पूर्वविज्ञानसंस्कारमात्रजं ज्ञानमुच्यते।"-प्रकर.पं.पृ.४२, तन्त्ररह.पृ.२ "स्मृतिश्च संस्कारमात्रजं ज्ञानमभिधीयते" -शास्त्रदी. पृ.१५३ / "स्मरणं स्मृतिः" -सर्वार्थसि. १/ १३ / "तैरेवेन्द्रियैर्य परिच्छिन्नो विषयो रूपादिस्तं यत् कालान्तरेण विनष्टमपि स्मरति तत् स्मृतिज्ञानम्। अतीतवस्त्वालम्बनमेककर्तृकं चैतन्यपरिणतिस्वभावं मनोज्ञानमिति यावत् ।" -तत्त्वार्थभाष्यव्या. १/१३ । "संस्कारोबोधनिबन्धना तदित्याकारा स्मृतिरिति" - परीक्षामु. ३/३, प्रमाणमी. १/२/३ / "तदित्याकाराऽनुभूतार्थविषया स्मृतिः" प्रमाणप.पृ.६९ / "स्मृतिश्च वितर्कलक्षणा ।" जैनतर्कवा.वृ.पृ.९९/ "तत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं संवेदनं स्मरणम्।" -प्रमाणन. ३/१/
"अनुभवमात्रजन्यं ज्ञानं स्मरणम् ।" जैनतर्कभा.पृ.८ / (33) "उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः । इदमस्मिन् सत्येव भवत्यसति तु न भवत्येवेति च।"
- परीक्षामुखः ३/११-१२, प्रमाणमी. १/२/५/ "उपलम्भानुपलम्भसंभवं त्रिकालीकलितसाध्यसाधनसम्बन्धाद्यालम्बनमिदमस्मिन् सत्येव भवतीत्याद्याकारं संवेदनमूहापरनामा तर्कः ।।" - प्रमाणन. ३/५, जैनतर्कभा. पृ.१० / "व्याप्तिज्ञानं तर्कः ।" न्यायदी.पृ.१९ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org