________________
परिशिष्ट - १
अनेकान्तजयपताका तस्मान्न सुविवेचिताकारं कार्य कारणं व्यभिचरति ॥३/३६-३/३७॥
(म०) अतश्च - अग्निस्वभावः शक्रस्य मूर्धा वल्मीकः । यद्यग्निरेव सः तदा न हि वह्निस्वरूपतां विहायान्यद् वह्ने रूपम् । अथान्यथा प्रतीयमानत्वादनग्निस्वभावोऽसौ तदा धूमो वह्वेर्जन्यस्वभावस्तत्र शक्रमूर्ध्नि कथं भवेत् ? न हि वह्निजन्योऽन्यस्माद् भवितुमर्हति, तदधीनत्वात् । ततः शक्रमूर्नो धूमोत्पत्तिरिति भ्रान्तिरेषा, वह्वेरेव तद्देशवतिनोऽनुपलक्षितादुत्पत्तिः ॥३/३६।।
किञ्च-धूमहेतुस्वभावस्तच्छक्तिभेदवान् धूमजननशक्तिविशेषयुक्तो वह्निः प्रतीतः । अधूमहेतोरदहनात् धूमस्य भावे स धूमोऽहेतुकः स्यात् । हेतुप्रमाणनिश्चितमन्तरेणैवोत्पादात् । अहेतुत्वे च नित्यं सत्त्वमसत्त्वं वा स्यात् इत्युक्तम् ॥३/३७।। पृ. १२७९, पं. २२
कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥३/३१॥
(म०) उक्तमर्थ श्लोकाभ्यां संगृह्णनाह-कार्यकारणभावात् तदुत्पत्तेर्वा नियामकात् साधनस्य साध्याव्यभिचारकारणात्, स्वभावात् तादात्म्याद् वा नियामकादविनाभावनियमः। साध्याव्यभिचारित्वनियमः साधनस्य । विपक्षे हेतोरदर्शनात् न सपक्षे न दर्शनात्, दर्शनादर्शनयोर्व्यभिचारिण्यपि हेतौ सम्भवात्, नियमहेत्वभावाच्च ॥३/३१।।
विना यं लोकानामपि न घटते संव्यवहृतिः, समर्था नैवार्थानधिगमयितुं शब्दरचना ॥ वितण्डा चण्डाली स्पृशति च विवादव्यसनिनं, नमस्तस्मै कस्मैचिदनिशमनेकान्तमहसे ॥४॥ - अनेकांनवादमाहात्म्यविंशिकामूलम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org