________________
अनेकान्तजयपताका
परिशिष्ट - १
विधिविनाशेऽपि, विरोधात् । एवं चाभिधानेऽपि प्रयोजनमावेदितमेव ।
अतो
(म०) अत्राह-न तस्य भावस्य किञ्चिद् विनाशोऽन्यो वा भवति । किं तर्हि स एव केवलं न भवति, व्यवहर्त्तव्यैकरूपत्वात् तस्य । तत्र च भेदाभेदविकल्पानवतारः ।
भावे ह्येष विकल्पः स्याद् विधेर्वस्त्वनुरोधतः ॥३/२७९॥
भावोऽवश्यं भवन्तमपेक्षते । स च स्वभाव एव, निःस्वभावस्य क्वचिद्व्यापारे समावेशाभावात् । व्यापार इति हि तथाभूतस्वभावोत्पत्तिः । सा निःस्वभावस्य कथं स्यात् ? कथमिदानीं भवत्यभावः शशविषाणमित्यादिव्यवहारः ? न वै शशविषाणं किञ्चिद्भवतीत्युच्यतेऽपि त्वेवमस्य न भवतीति भावप्रतिषेध एव क्रियते ।
__अपि च व्यवहर्तारः एतदेवं व्यापारवदिव समारोप्यादर्शयन्ति प्रकरणेन केनचित् । न तु तथा । सर्वार्थविवेचनं हि तत्र तत्त्वम् । न कस्यचित् समावेशः । न खल्वेवं विनाशः, वस्तुनि तदभावात् । असावपि यदि वक्तृभिरेवं ख्याप्यते न तु स्वयं तथा, तदा न भवतीतीष्टमेतत् । तस्मात् स्वयं भवन् स्वभावो विकल्पं नातिवर्त्तते तत्त्वमन्यत्वमिति ॥३/२७९॥
(म०) हि यस्माद् भावे विकल्प एष भेदाभेदात्मकः स्यात्, विधेर्वस्त्वनुरोधतः । नाशस्तु प्रसज्यप्रतिषेधरूपो निःस्वभावत्वाद् भेदाभेदविकल्पाक्षमः । यदि च प्रसज्यप्रतिषेधेऽपि वस्त्वन्तरविधिः, तदा पर्युदासान्न भिद्येत । उभयत्रापि विधेः प्राधान्यात् । पर्युदासो वा न सिध्येत्, एकनिवृत्तावपरविधाने स स्यात्, निवृत्त्यसिद्धौ तु कथं युक्तः ? ।।३/२७९।। पृ. १२२२, पं. १
अग्निस्वभावः शक्रस्य मूर्धा यद्यग्निरेव सः । अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ॥३/३६॥ धूमहेतुस्वभावो हि वह्निस्तच्छक्तिभेदवान् । अधूमहेतो॰मस्य भावे स स्यादहेतुकः ॥३/३७॥
(स्वो०) कथं त_दानी भिन्नात् सहकारिणः कार्योत्पत्तिः यथा चक्षूरूपादेविज्ञानस्य । न वै किंचिदेकं जनकं तत्स्वभावम् । किं तु सामग्री जनिका तज्जननस्वभावा । सैवानुमीयते । सैव च सामग्री स्वभावस्थित्याऽऽश्रयः कार्यस्य । अत एव सहकारिणामप्यपर्यायेण जननम् ।
यदपि किंचिद्विजातीयाद् भवद् दृष्टं गोमयादेः शालूकादिः तत्रापि तथाभिधानेऽप्यस्त्येव स्वबीजप्रभवात् स्वभावभेदः, हेतुस्वभावभेदात् । यथा कदली बीजकन्दोद्भवा स्फुटमेव तादृश लोको विवेचयति, आकारभेदात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org