________________
परिशिष्ट - १
अनेकान्तजयपताका
परिशिष्ट - १)
अनेकान्तजयपताकाऽन्तर्गतानां प्रमाणवार्तिकश्लोकानां स्वोपज्ञव्याख्यायाः
मनोरथनन्दिकृतवृत्त्याश्च समुपन्यासः पृ. ११५२, पं. ४
भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥२/२४७॥
(म०) ननु प्राग्भावभावित्वाद् भिन्नकालं वस्तु कथं ग्राह्यमिति चेत् हेतुत्वमेव ज्ञाने आकारस्य स्वानुरूपस्यार्पणक्षमं ग्राह्यतां युक्तिज्ञा विदुः । न हि सन्दंशायोगोलयोरिव ज्ञानपदार्थयोाह्यग्राहकभावः, कथं तर्हि यदाकारमनुकरोति तद् ग्राह्यस्य ग्राहकमित्युच्यते ॥२/२४७।। पृ. ११७९, पं. १
(स्वो०) नन्वत्र - न तस्य किञ्चिद् भवति न भवत्येव केवलम् । इत्युक्तम् ।
न ह्ययं विनाशोऽन्यो वा कश्चिद्भावस्य भवतीत्याह । किं तहि स एव भावो न भवति । यदि हि कस्यचिद्भावं ब्रूयान्न भावोऽनेन निवर्तितः स्यात् । तथा च भावनिवृत्तौ प्रस्तुतायामप्रस्तुतमेवोक्तं स्यात् । न हि कस्यचिद्भावेन भावो न भूतो नाम । तदा न भूतो यदि स्वयं न भवेत् । न भवतीति च प्रसज्यप्रतिषेध एष न पर्युदासः । अन्यथेहापि कस्यचिद्भावे न प्रतिषेधपर्युदासयो रूपभेदः स्यात् । उभयत्रापि विधेः प्राधान्यात् । एवं चाप्रतिषेधात् कस्यचित् पर्युदासोऽपि क्वचिन्न स्यात् । यदि हि किंचिन्निवर्तेत यदा तद्व्यतिरेकि संस्पृश्येत तत्पर्युदासेन । तच्च नास्ति, सर्वत्र निवृत्तिर्भवतीत्युक्ते कस्यचिद्भावस्यैव प्रतीतेः । तथाऽनेनार्थान्तरभाव एवोक्तः स्यात् । न तयोः परस्परं विवेकः । अविवेके च पर्युदासः तदेवं व्यतिरेकाऽभावादन्वयोऽपि न स्यात्, तस्यैकस्वभावस्थितिलक्षणत्वात् । तत्स्थितिश्च तदन्यव्यतिरेके सति स्यात् । स च नास्तीत्यप्रवृत्तिनिवृत्तिकं जगत् स्यात् । तस्माद्यस्य नाशो भवतीत्युच्यते स स्वयमेव न भवतीत्युक्तं स्यात् । न वै घोषसाम्याद्विषयान्तरदृष्टो विधिः सर्वत्र योजनामर्हति । न हि गर्दभ इति नामकरणाद्वालेयधर्मा मनुष्येऽपि योज्याः । तथा न चैत्रस्य पुत्रो भवतीत्यत्र दृष्टो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org