SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - १ अनेकान्तजयपताका On कुरज्ञानवासनापाटवमङ्कुरज्ञानं जनयति, एवं धूमज्ञानमग्निज्ञानमुत्पादयति । तावतैव च ज्ञापकव्यवस्थाया अविरोधः ॥२/३९४।। पृ. ११२३, पं. १ अनग्निजन्यो धूमः स्यात् तत्कार्यात् कारणे गतिः । न स्यात् कारणतायां वा कुत एकान्ततो गतिः ॥२/३९५॥ (म०) नन्वस्ति विरोधः । तथा हि-धूमज्ञानादग्निज्ञानोत्पादेऽनग्निजन्यो धूमः स्यात् । अग्निप्रतिभासस्य प्रागविद्यमानत्वात् विपर्ययः स्यात् । तत् तस्मात् कार्यात् कारणे गतिर्न स्यात् । अग्निज्ञानं प्रति धूमज्ञानस्य कारणतायां वा कारणात् कार्य एकान्ततोऽसन्दिग्धा कुतो गतिरिति ? ॥२/३९५॥ पृ. ११२४, पं. १ तत्रापि धूमाभासा धीः प्रबोधपटुवासनाम् । गमयेदग्निनिर्भासां धियमेव न पावकम् ॥२/३९६॥ (म०) अत्राह- तत्र धूमादग्न्यनुमानेऽपि धूमाभासा धीरग्निवासनाप्रतिबद्धा एकसामग्र्यधीनतयाऽग्निनिर्भासां धियमेव धूमज्ञानादेव प्रबोधेन पटुजननोन्मुखा वासना शक्तिर्यस्यास्तां गमयेत्, न पावकं बाह्यरूपम्, सर्वदाऽदर्शनात् ।।२/३९६॥ तद्योग्यवासनागर्भ एव धूमावभासिनीम् । व्यनक्ति चित्तसन्तानो धियं धूमोऽग्नितस्ततः ॥२/३९७॥ (म०) अग्निवासनाधूमज्ञानयोर्हेतुफलतामाख्यातुमाह-तस्याग्निप्रतिभासस्य योग्या जननसमर्था वासनागर्भे स्वभावभूता यस्य चित्तसन्तानस्य स चित्तसन्तानो धूमावभासिनी धियं व्यनक्ति उत्पादयति । ततोऽग्नित एव धूमो भवतीति न कार्यकारणताविपर्ययः । न च कारणात् कार्यानुमानम्, अग्निवासनाप्रभवत्वात् धूमाग्निज्ञानयोः । धूमज्ञानात् प्रबुद्धाग्निवासनाद्वारेणाग्निज्ञानानुमितिरेकसामग्र्यधीना ॥२/३९७।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005535
Book TitleAnekantjaipataka Part 04
Original Sutra AuthorN/A
AuthorBhavyasundarvijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy