________________
अनेकान्तजयपताका
परिशिष्ट - १
पृ. ११३१, पं. ३
कस्यचित् किञ्चिदेवान्तर्वासनायाः प्रबोधकम् । ततो धियां विनियमो न बाह्यार्थव्यपेक्षया ॥२/३३६॥
(म०) एवं तर्हि ज्ञानस्य गजाद्याकारस्यालोकादिनिमित्तान्तरसद्भावेऽपि देशकालादिप्रतिनियमदर्शनाद् अर्थो व्यवस्यति इत्याह-कस्यचिज्ज्ञानस्य गजाद्याकारस्य किञ्चिदेव ज्ञानमन्तर्वासनायाः समनन्तरप्रत्ययान्तरवर्त्तिन्या नियतज्ञानजननयोग्यतालक्षणायाः, प्रबोधकं कार्योत्पादनाभिमुख्यकारकम् । ततः प्रबोधकवशात् धियां नियताकारतया विनियमः, न बाह्यार्थव्यपेक्षया सः । को हि विशेषो बाह्यो वा नियामकः प्रतिभासस्य, प्रबुद्धवासनाविशेषः समनन्तरप्रत्ययो वा ? तत्र वासनायाः सामर्थ्य स्वप्नादावुपलब्धम्, न तु बाह्यस्य (तस्य) नित्यपरोक्षत्वात् । न तथापि परोक्षस्य बाह्यस्य साधकस्याभावेऽपि नाभावस्थितिरिति चेत्, प्रतिभासमानं ज्ञानं बाह्यं तु न प्रतिभासत एवेति तावतैवाभिमतसिद्धेः साधकप्रमाणरहितपिशाचायमानबहिरर्थनिषेधे नास्माकमादरः । यदि तु तन्निषेधनिर्बन्धो गरीयान्, सांशत्वानंशत्वकल्पनया परमाणुप्रतिषेधे आचारूयः पर्येषितव्यः ।।२/३३६।।
स्वतः प्रवृत्तिसाम्राज्यं किं चाखंडसुखेच्छया । निराबाधं च वैराग्यमसंगे तदुपक्षयात् ॥२४॥
- द्वात्रिंशद्वात्रिंशिकामूलम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org