________________
Co
पृ. ९६९, पं. १
दर्शनोपाधिरहितस्याग्रहात् तद्ग्रहे ग्रहात् ।
दर्शनं नीलनिर्भासं नार्थो बाह्योऽस्ति केवलम् ॥२/३३५॥
पृ. १०७१, पं. २
अनेकान्तजयपताका
तत्र दर्शनेन ज्ञानेनोपाधिना विशेषणेन रहितस्य नीलादेरग्रहात् तस्य ग्रहे च नीलस्य ग्रहात् सहैव नीलधियोर्वेदनात् दर्शनं नीलादिनिर्भासं नीलाकारं व्यवस्थितम् । यत् तावत् नीलादिकं बाह्यमित्युच्यते तद् ज्ञानेन सहोपलम्भनियमात् तदभिन्नस्वभावम्, द्विचन्द्रादिवत् । कस्तर्हि नास्ति इत्याह- बाह्यो नीलादिरर्थः केवलं नास्ति, तत्साधकत्वेनाभिमतस्याध्यक्षस्यासामर्थ्यात् ॥२/३३५॥
पृ. १०८४, पं. १
नीलादिरूपस्तस्यासौ स्वभावोऽनुभवश्च सः ।
नीलाधनुभवात् ख्यातः स्वरूपानुभवोऽपि सन् ॥२/३२८॥
(म०) कथं तर्हि नीलाद्यनुभवप्रसिद्धिः इत्याह- तस्य ज्ञानस्य नीलादिरूपोऽसौ स्वभावोऽनुभवः प्रकाशात्मकश्च सः । तेन स्वरूपानुभवोऽपि सन्नीलाद्यनुभवात् तथा सम्प्रसिद्धिः ॥२/३२८॥
परिशिष्ट १
बीजादङ्कुरजन्माग्नेर्धूमात् सिद्धिरितीदृशी ।
बाह्यार्थाश्रयिणी यापि कारकज्ञापकस्थितिः ॥२ / ३९३ ॥
(म०) ननु बाह्यार्थाभावे बीजादङ्कुरस्य जन्मेतीदृशी एवंजातीया यापि प्रतीतिसिद्धा कारकस्थिति: । धूमात् कार्यात् कारणस्याग्नेः सिद्धिरितीदृशी यापि ज्ञापकहेतुस्थिति: तदुच्छेदः स्यात्, हेतुफलभावाश्रयस्य बाह्यस्यैवाभावात् ॥२/३९३॥
Jain Education International
सापि तद्रूपनिर्भासा तथा नियतसङ्गमाः ।
बुद्धीराश्रित्य कल्प्येत यदि किं वा विरुध्यते ? ॥२ / ३९४ ॥
(म०) अत्राह-सा कारकज्ञापकस्थितिरपि तद्रूपनिर्भासा बीजाङ्कुर धूमाग्निप्रतिभासवासनाप्रतिनियमात् । तथा क्रमविशेषेण नियतः सङ्गम उत्पादो यासां ताः बुद्धीराश्रित्य यदि कल्प्येत तदा किं वा विरुध्यते ? न किञ्चित् । यथा हि बीजप्रतिभासं ज्ञानं स्वहेतोः प्रबुद्धा
For Personal & Private Use Only
www.jainelibrary.org