SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट अनेकान्तजयपताका परिशिष्ट - १) अनेकान्तजयपताकाऽन्तर्गतानां प्रमाणवार्तिकश्लोकानां स्वोपज्ञव्याख्यायाः __मनोरथनन्दिकृतवृत्त्याश्च समुपन्यासः पृ. ८९८, पं. ३० स्यादाधारो जलादीनां गमनप्रतिबन्धतः । अगतीनां किमाधारैर्गुणसामान्यकर्मणाम् ॥१/७०॥ एवं सामान्येनाश्रयाश्रयिभावदूषणमभिधाय द्रव्यदूषणादौ विशेषे दूषणं वक्तुमाह-स्यादाधारो जलादीनां प्रसर्पणधर्माणां गमनप्रतिबन्धतः कुण्डादिः । अगतीनां निष्क्रियत्वात् किमाधारैः गुणिव्यक्त्यादिभिर्गुणसामान्यकर्मणां पदार्थानाम् ? ॥१/७०।। पृ. ९४१, पं. १ रूपादयो घटस्येति तत्सामान्योपसर्जनाः । तच्छक्तिभेदाः ख्याप्यन्ते वाच्योऽन्योऽपि दिशानया ॥१/१०४॥ (म०) समुदायाभिधायी चाप्रतिक्षिप्तधर्मान्तर एव भवतीति सौवर्णो घटः इत्यादि सामानाधिकरण्यम् । स च द्विविधः-अनेकवृत्तिः, अन्यथा च । तथा घटादिशब्दो विन्ध्याद्रिशब्दश्च । यदि रूपादयः केवलाः, नास्त्यवयवी, तदा कथं घटस्य रूपादय इति सम्बन्धः ? इत्याह-रूपादयो घटस्य इति सम्बन्धवाचिन्या श्रुत्या तत्सामान्योपसर्जना घटत्वसामान्यविशेषितास्तेषां रूपादीनां शक्तिभेदा रञ्जनादयः ख्याप्यन्ते, घटव्यपदेशविषयसमुदायान्तर्गतं रञ्जनक्षमरूपं निष्कृष्योच्यत इत्यर्थः । अन्योऽपि चन्दनस्य गन्धः इत्यादिव्यपदेशोऽनया दिशा वाच्यः । विस्तरस्तृतीयपरिच्छेद एवास्य । तदेवमवयव्यादीनां प्रतिषेधात् पानकादिरिव परमाणुपुञ्जरूप एव देहः प्रत्यक्षेणेक्ष्यत इति स्थितम् ॥१/१०४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005535
Book TitleAnekantjaipataka Part 04
Original Sutra AuthorN/A
AuthorBhavyasundarvijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy