________________
अनेकान्तः एव कान्तः (३३)
स्वस्थाने निजस्वभावरूपे स्वहेतुभिरेव व्यवस्थापिताः वर्तन्ते । अनेन च ग्रन्थेन स्वस्थाने स्थापनायाः अभिव्यक्तिः = प्रकाशनमेव क्रियते, तथाविधमोहापसरणेनेति" - इत्येवं कृतम् । (दृश्यतां पृ. २०)
एवम् अनवस्था-चक्रकदोषयोः अन्यत्राऽन्यैः व्यवस्थापितः विशेषः अत्र च अभिप्रेतः तयोः अविशेषः स्पष्टतया विवरणकृता “इह अभयदेवादिग्रन्थान्तरेषु पदत्रयस्य पुनः पुनरावृत्तौ 'चक्रकं' नाम दोषो विवक्षितो दृश्यते ।...... अनवस्था तु पुनः पुनः पदद्वयाऽऽवर्तनरूपा प्रसिद्धैव । इह तु अनवस्थाचक्रकयोः नामकृतः एव विशेषो लभ्यते, न पुनरर्थकृतः कश्चिद् । यद् वक्ष्यति सामान्यविशेषवादे 'चक्रक्रमनवस्थाऽनतिवृत्तेः' इति । अत्र हि चक्रके साध्ये अनवस्थानतिवृत्तिलक्षणो हेतुरुपन्यस्तः । अतो ज्ञायते अनवस्थैव चक्रवत् पुनः पुनर्भ्रमणात् चक्रकमित्युच्यते इति । "
अधिकं किं वक्ष्यामः ? अधिकरसास्वादलिप्सुभिः पठनीयः स्वयमेवैषः ग्रन्थः । एतद्ग्रन्थकृतां तत्तद्व्याख्या - विवरणादिकृतां च परिचयः अत्रैव अन्यत्र चर्चितः इति न तत्राऽस्माकमायासः । नवरं नास्त्यत्र कोऽपि विवादः यदुत सकलशास्त्रकारपरमर्षि - आचार्यहरिभद्रसूरि : किरीटकल्पः तैः रचितश्चाऽयम् अनेकान्तजययताकाऽऽख्यग्रन्थः समस्तग्रन्थेषु किरीटस्थरत्नकल्पः ।
अनेकान्तभास्करे धूलिप्रक्षेपाय प्रयत्न: बहुभिः वावदूकैः कृतः तथाऽपि एतादृशग्रन्थरचनाद्वारा पूर्वाचार्यैः ते सर्वेऽपि प्रयत्नाः विफलीकृताः । प्राचीनन्यायशैलिनिबद्धोऽयं सूरिपुरन्दराचार्यश्रीहरिभद्रसूरिसन्दृब्धोऽनेकान्तजयपताकादिग्रन्थनिकरः, नव्यन्यायशैलिगुम्फितः महोपाध्यायश्रीयशोविजयगणिवर्यविरचितः स्याद्वादकल्पलतादिग्रन्थकलाप एवाऽत्र प्रमाणम् । द्रव्य-गुणपर्यायरासे चतुर्थ-शाखायां प्रथम- द्वितीय तृतीय श्लोकेषु परैः अनेकान्तवादे कल्पितानां सप्तदशदूषणानाम् उपदर्शनं निराकरणञ्च नव्यन्यायशैल्योपलभ्यते तच्च नाऽन्यत्र लभ्यते इति तुलनाप्रियविदुषां विनिवेद्यते । अधिकं द्रव्यानुपरामर्शकर्णिकायाम् अवोचाम: (४/२-३)।
अधुना तु अत्यानन्दाऽवसरः यत् तथाविधसंस्कृतभाषापाण्डित्यविकलानाम् एतद्ग्रन्थराजपदार्थरसास्वादलिप्सूनाम् अपि एतद्ग्रन्थप्रवेशसौकर्यकारी विस्तृत: विकसित: विशिष्टः सुन्दरः स्वाद्यः सौष्ठवशाली गुर्जरानुवादः प्रकाश्यतां नीयते परमपूज्याऽऽचार्यवर्यश्रीमद्विजयगुणरत्नसूरीश्वरशिष्यरत्नपरमपूज्याऽऽचार्यश्रीमद्विजयरश्मिरत्नसूरीश्वर शिष्यरत्रेन मुनिराजयशरत्नविजयेन अल्पे एव जन्म-दीक्षापर्याये इति कमपि अमन्दानन्दसन्दोहं गाहते मन्मनः, अतिदुरूहतया सकललोकविख्यातस्य निरुद्धप्राय: पठनपाठनप्रचारस्य एतद्ग्रन्थस्य तथाविधबालादीनामपि गम्यत्वाऽऽपादनात् । शतशः साधुवादाः धन्यवादाः च तस्मै मुनिप्रवराय वितरामः ।
यत: अनेकहस्तप्रत्याधारेण अनेकत्राऽनेकाशुद्धिनिराकरणेन अति स्वच्छतामापादितः एषः ग्रन्थः । पादनोंधे च अतीव उपयोगिन्यः सामग्र्यः निवेशिताः, तेन च संस्कृतोऽयं ग्रन्थः । क्लिष्टस्थलीयस्पष्टाऽनुवादेन बाहुल्येन व्याख्यादीनां पदार्थवाक्यार्थादेः विवेचने समावेशकरणेन समृद्धः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org