SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अनेकान्तः एव कान्तः सकलजनाऽभिगम्यश्च कृतः इति ग्रन्थसम्पादन-संशोधनानुवादनादिकार्येषु मुनिप्रवरेण सफलता ) आसादिता । अनेकत्र अनेकवैशिष्टयम् अनुवादे पादनोंधे च समाविष्टं समस्ति, कस्य कथनं कुर्महे वयं, स्वयमेव पठित्वाऽनुभवतु, श्रवणपठनादितोऽपि अनुभवस्य बलवत्त्वात् । तत्तद्विशेषताभिः वैशिष्ट्यं बिभ्रन् अयं ग्रन्थराजः राजतेतमाम् । संशोधनकुशलमुनिराजश्रीभव्यसुन्दरविजयेन च संशोधितोऽयमनुवादः इति तत्समेतोऽयं ग्रन्थराजः अवश्यं विद्वज्जनवल्लभो भविष्यति इति वाचका एवाऽत्र प्रमाणम् । गुणरत्नमहोदधौ रत्नकल्पोऽयं मुनिप्रवरः स्वीयैः धीरश्मिभिः नैकान् ग्रन्थान् संस्कृत-गुर्जरविवेचनसमलङ्कृतान् करोतु इति आशास्महे। प्रान्ते, सकलसचराचरसृष्टिव्याप्यनेकान्तवादसमाश्रयणेन तात्त्विकं तत्परिज्ञानमुपलभ्य शीघ्रं सत्वरं मुक्तिं विन्दताम् अखिलं विश्वमिति कामनया सह विरमामि..... वि.सं. २०६८ लि. भाद्रपदशुक्ला चतुर्थी परमपूज्यवर्धमानतपोनिधि-न्यायविशारदासांवत्सरिकमहापर्व ऽऽचार्यवर्यश्रीमद्विजयभुवनभानुसूरीश्वरभुज-कच्छ शिष्यरत्नपार्श्वप्रज्ञालयतीर्थप्रेरकपंन्यासप्रवरश्रीविश्वकल्याणविजयपदपद्मसद्म निवासिपंन्यासयशोविजयः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005532
Book TitleAnekantjaipataka Part 01
Original Sutra AuthorN/A
AuthorBhavyasundarvijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages370
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy