________________
अनेकान्तः एव कान्तः (३२)
भावस्तवस्य लक्षणं निष्टङ्कितम्
"अयं च यथाभूताऽन्याऽसाधारणगुणोत्कीर्तनरूपत्वाद् भावस्तवः" इत्याद्युक्त्या, ।। प्रामाणिकत्वं बहुश्रुताऽऽदरणीयत्वञ्चाऽस्य लक्षणस्य नन्दीसूत्रवृत्तिकृदुक्तिप्रदर्शनेन एतद्ग्रन्थोपरि
गुर्जरविवेचनकृता प्रस्थापितमिति एतदुपरि किञ्चिद् विचार्यते - उक्तोक्त्या 'यथाभूताऽन्याऽसाधारणगुणोत्कीर्त्तनत्वं भावस्तवत्वम्'इति फलितम् । अत्राह - ननु अन्यदर्शनिस्वीकृतदेवेषु अपि केवलज्ञानादिगुणाः सन्ति एव, सर्वात्मनां केवलज्ञानादिगुणवत्त्वात्, केवलं साम्प्रतं तिरोभूताः, किन्तु न न सन्ति । ततश्च तेषां सर्वज्ञत्वकीर्तनमपि भावस्तवः स्यात्, यथाभूतगुणोत्कीर्तनरूपत्वात् । यद्वा तीर्थकृतां सर्वज्ञत्वगुणोत्कीर्त्तनमपि न भावस्तवः स्यात्, सर्वज्ञत्वादीनामन्यसाधारणत्वाद् इति चेद् ?
न; तादृशकेवलज्ञानादीनां तदानीमर्थक्रियाकारित्वविरहाद् निश्चयदृशा गुणत्वाभावात् । न हि काष्ठे प्रस्थकत्वोक्तिः निश्चयसम्मतेति । ___ न चाऽन्यकेवलिषु तत् तादृशं वर्तते इति पुनः तदापत्तिरिति वाच्यम्; तथाविधविश्वोपकारितीर्थंकरनामकर्मोदयसाचिव्यस्याऽन्यत्राऽभावात् । अत एव तीर्थङ्करस्थितकेवलस्य विश्वोपकारित्वेनाऽन्याऽसदृशत्वं विभावनीयम्।
न च सम्यग्दृष्टिजीवेन 'आधि-व्याध्युपाधिनाशक: मे अर्हन् जयतु' इत्यादिरूपेण भौतिकदुःखनाशकत्वेन कृतमर्हत्स्तवनं भावस्तवः न स्यात्, तादृशदुःखनाशकत्वस्याऽन्यसाधारणत्वादिति वाच्यम्;शुद्धनिश्चयनयदृष्ट्या तस्य भावस्तवत्वाभावात्, यद्वा, सम्यग्दृष्टिजीवस्य । अर्हत्परमात्मनिष्ठशुद्धगुणविषयकश्रद्धा-ज्ञानादिशालित्वेन तादृशाऽन्याऽसाधारणगुणसमानाधिकरणभौतिकदुःखनाशकत्वस्यैव स्तुत्यत्वेनाङ्गीकारान्नाऽव्याप्तिः अन्यथा तादृशदुःखनाशकत्वेन अन्यदेवादीनामपि स्तुत्यत्वापत्तेः, न हि सम्यग्दृष्टिः कदाऽपि स्वदुःखनाशकत्वेन अन्यदेवं तथाबुद्ध्या स्तौति । तादृशदुःखनाशकत्वस्य वाऽन्यवाऽभावादिति न काऽपि अनुपपत्तिः इति अलं चसूर्या । अत्र बहु वक्तव्यं तच्च विस्तरभिया उपेक्ष्यते इति ।
एतदनेकान्तजयपताकाऽऽख्यप्रकरणं सूरिपुरन्दर श्रीहरिभद्रसूरिविरचितं व्याख्यासमलङ्कृतम् । ॥ एतद्व्याख्यागतवैशिष्ट्यमस्माभिः दृष्टम्, अधुना एतद्व्याख्योपरि यद् आचार्यवर्यश्रीमुनिचन्द्रसूरिविरचितं विवरणं तवैशिष्ट्यमपि किञ्चिदवलोकामहे
"शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम् । आहुः प्रकरणं नाम, ग्रन्थभेदं विपश्चितः ॥"
इतिपराशरपुराणोक्तप्रकरणपदप्रवृत्तिनिमित्तं व्युत्पत्त्या दर्शयता अनेकान्तजयपताकाव्याख्याकृता "प्रक्रियन्तेऽर्थाः स्वस्थानस्थापनाऽभिव्यक्त्या अस्मिन् इति प्रकरणम्" इत्युक्तम्।
एतदन्तर्निहितैदम्पर्यप्रकाशनम् अतीव सरलया गिरा विवरणकृता "स्वभावत एव हि पदार्थाः ,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org