________________
अनेकान्तः एव कान्तः (३१)
न च अनुपात्तानां कार्मणवर्गणापुद्लानां न कर्मत्वव्यपदेशः जीवैरुपात्तानामेव कर्मत्वव्यपदेशादिति प्रागुपात्तत्वाऽनिवेशेऽपि न अनुपात्तकर्मादाय क्षतिः, अनुपात्तस्य कर्मत्वस्यैवाऽसम्भवेनाऽनुपात्तकर्मणः गगनाऽरविन्दसोदरत्वाद् इति वाच्यम्;
स्वरूपदर्शकत्वेन नैरर्थक्याऽभावात्, कार्मणवर्गणापुद्गलानामपि कथञ्चित् कर्मत्वव्यपदेशसम्भवेन तद्व्यवच्छेफलकस्य तस्य सार्थक्यसम्भवाद् वा। एतेन पदेन "कर्माणि न ) स्वयमेव आत्मनि श्लिष्टानि, किन्तु जीवेनैव दुष्कृतानि समाचर्य स्वयमुपादत्तानि । ततश्च न कर्मणां दोषः, जीवस्य स्वस्यैव । कर्मणि प्रागुपात्तत्वमेव स्वोदयस्य विघ्नत्वे मुख्य कारणम्, दुष्कृताऽनाचरणेन प्रागनुपात्तत्वे तदुदयस्यैवाऽसम्भवेन विघ्नस्य दूरोत्सारितत्वात् । ततश्च साम्प्रतकालीनं विघ्नप्रयोजकत्वं दुष्कृतसमाचरणतः जीवेन कृता कर्मोपादानलक्षणा क्रियैव, प्रागुपात्तत्वविशिष्टकर्मणि कृतस्य विघ्नप्रयोजकत्वविधानस्य तद्विशेषणीभूतप्रागुपात्तत्वे उपसङ्क्रमणाद्" इत्यभिव्यज्यते।
नच'उपात्त'पदगतनिष्ठाप्रत्ययेनैवातीतकालीनत्वस्य बोधाद् निरर्थकं प्राक्पदमिति वाच्यम्; कर्मोपादानक्रियोपरमाऽनन्तरसमयेऽपि निष्ठाप्रत्ययस्य प्रयुज्यमानत्वेन कर्मणाञ्च स्वस्वाऽबाधाकालाऽनन्तरमेव स्व-स्वफलजननं प्रति सक्रियत्वसम्भवेन निष्क्रियकर्मणां तथात्वविरहेण सक्रियकर्मणामुदयस्यैव तथात्वेन तादृशाऽबाधाकालपूर्णत्वसूचकस्य प्राक्पदस्य सार्थक्याऽनपायात् । तथा च अबाधाकालप्रमितकालपूर्वमुपात्ताऽशुभकर्मोदयलक्षणः विघ्नः इति फलितम् । ततश्च कर्मोपादानक्रियायाः पश्चाद् अबाधाकालोऽपि व्यतीतः, अतः एव च तादृशकर्म उदयप्राप्तम्, यद्यपि अबाधाकालस्याऽपूर्णत्वे न कर्मणामुदयप्राप्तत्वमिति 'अशुभकर्मोदयः विघ्नः' इत्यस्यैव समीचीनत्वम्, तथाऽपि अबाधाकालस्याऽपूर्णत्वे कर्मणामुदयस्याऽसम्भवेन 'कर्मसत्त्वे तदुदयाऽवश्यम्भावेन कर्माणि एव निरुन्ध्यानि इति कर्मणाम् उदयद्वारा प्रारीप्सितप्रबन्धप्रतिपन्थित्व'नियमः विभज्येत, तदुपादाने अबाधाकालस्य पूर्णतायामवश्यं तदुदयः इति अन्यत् स्वयमभ्यूह्यम् । यद्वा 'अशुभकर्मोदयः एव विघ्नः' इत्यपि साधु इति दिक्।
ननु कर्मणां विपाकोदयस्य केनाऽपि अनपवर्तनीयत्वेन मङ्गलं निष्फलमेव, मङ्गलादिना उदयाऽप्राप्तानामेव कर्मणां क्षयस्य शक्त्यवात् । उदयप्राप्तानां कर्मणां नाशः न भोगमृते । ततश्च मङ्गलकरणेऽपि न तादृशकर्मोदयरूपविघ्नध्वंसः सम्भवेदिति चेद् ??
मैवम्; मङ्गलेन तादृशकर्मणामेव विघातात्, उदय-सत्तादेः कर्मपुद्गलस्य पर्यायरूपत्वेन कर्मनाशकस्य उदयनाशकत्वाऽनपायात्, द्रव्यनाशकस्य तत्पर्यायनाशकत्वाऽवश्यम्भावात् । अत एव तादृशकर्मणोऽपि विघ्नत्वोक्तिः अन्यग्रन्थेषु सङ्गच्छते, अबाधाकालपूर्णताऽनन्तरं तादृशकर्मणां मङ्गलादिभिः अनाशितानाम् अवश्यं प्रारीप्सितप्रबन्धप्रतिपन्थित्वादिति ।
किञ्चाऽत्र कर्मनाशः = कर्मसंयोगनाशः एव ज्ञेयः इति न काऽप्यनुपपत्तिरित्यलं प्रसङ्गेन। 'जयति विनिर्जितरागः' इत्यादिश्लोक: भावस्तवरूपः इति प्रख्यापयता व्याख्याकृता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org