________________
अनेकान्तः एव कान्तः (३०)
उच्यते तदा आदौ या केवलघटावगाहिबुद्धिः भवति सा घटमेव गृह्णीयात्, या च पटावगाहिबुद्धिः सा केवलं पटमेव जानीयाद् इति सिद्धः तयोः भेदः, तयोरभेदे एकस्य ज्ञाने अन्यस्याप्यवश्यम्भावात् ।
एवमेव अभिलाप्याऽनभिलाप्यं वस्तु नैव भवति - इत्येवम् अनेकान्तवादिकृतः एकत्रैवाऽभिलाप्यत्वाऽनभिलाप्यत्वधर्मद्वयाऽभ्युपगमोऽपि पूर्वपक्षेण निरस्तः, प्रान्ते च मुक्त्यभावोऽपि प्रदर्शितः । एवं सप्रपञ्चं पूर्वपक्षो ग्रन्थकृतोपदर्शितः ।
एते सर्वेऽपि दोषाः विरोधमूलकाः अग्रिमग्रन्थसन्दर्भेण विस्तरतः निरस्ताः ग्रन्थकृता । विरोधः एव यतोऽत्र नाऽस्ति घटादीनां स्वद्रव्यादिना सत्त्वं परद्रव्यादिना च असत्त्वम् अवश्यमभ्युपेयम्, अन्यथा सर्वेषां सर्वात्मकत्वं स्यादिति सङ्क्षेपः।
एतद्दिशाऽखिलं प्रकरणं स्वयं समुन्नेयम्, एतद्गौरवभिया अग्रेतनसन्दर्भविवरणस्याऽत्राऽनुचितत्वात् । महार्णवत्वेऽपि अस्य प्रकरणस्य व्याख्या-विवरण-विवेचनादिविनिर्मितमहायानेन अधुना पारं गन्तुं अवश्यं पार्यते मन्दमतिभिः, दिग्दर्शनमपि सञ्जातमतः नास्ति किमपि भयम् । यथा यथाऽत्रावगाह्यते तथा तथा सिद्धान्त - तर्करत्नानि प्राप्यन्ते नाऽत्र सन्देहः । नास्ति चेत् प्रत्ययः ? पठन्तु स्वयं विश्वसन्तु चेति। ___अधुना अनेकान्तजयपताकाव्याख्याग्रन्थगतवैशिष्ट्यं कतिपयवाक्याऽन्तर्गतैदम्पर्यप्रकटनपूर्वं नव्यन्यायशैल्या किञ्चिद् वितन्यते इति सावधानमनसा अवधारयन्तु___'जयति विनिर्जितरागः' इत्यादिमङ्गलश्लोकावतरणिकायां उक्तश्लोकस्य मङ्गलरूपत्वेन विघ्नविनायकत्वसिद्ध्यर्थमादौ विघ्ननिर्वचनम् अकारि व्याख्याकृता, तद्ध्वंसजनकत्वज्ञानस्य परम्परया ।। तज्ज्ञानप्रयोज्यत्वात्, प्रतियोगिज्ञानस्याऽभावज्ञाने तद्ध्वंसज्ञानस्य तद्ध्वंसजनकत्वज्ञाने चाऽपेक्षणात् । ___ "प्रागुपात्ताऽशुभकर्मोदयलक्षणः विघ्नः" इति निर्मातं विघ्नलक्षणम् अनेकान्तजयपताकाव्याख्याकृता । सत्तायां विद्यमानानां कर्मणां प्रारीप्सितप्रबन्धप्रतिपन्थित्वाभावात्, विघ्नस्य च प्रारिप्सितप्रबन्धप्रतिपन्थित्वनियमान्न तेषां विघ्नत्वमिति उदयपदमुपात्तम्, कर्मणां विपाकोदयस्याऽवश्यं तादृशप्रतिपन्थित्वात् तादृशोदयस्य विघ्नत्वमनाविलम् । अत एव उदयपदेन न प्रदेशोदयोऽपि ग्राह्यः, किन्तु विपाकोदयः एव ग्राह्यः ।
शुभकर्मोदयस्याऽपि तादृशत्वविरहान्न विघ्नत्वमिति अशुभपदोपादानम् । कर्मनिष्ठाशुभत्वञ्च प्रारीप्सितप्रबन्धप्रतिपन्थित्वमेव, कर्मणामुदयस्यैव प्रारीप्सितप्रबन्धप्रतिपन्थित्वेऽपि तज्जनकस्याऽपि । तथात्वोक्तिः उपचारात् सङ्गच्छते, यद्वा प्रारीप्सितप्रबन्धप्रतिपन्थिप्रतियोगित्वं हि अशुभत्वम्, प्रारीप्सितप्रबन्धप्रतिपन्थ्युदयस्य अशुभकर्मसम्बन्धित्वनियमात् । तेन भोगान्तरायाद्यशुभकर्मणामुदयस्य तथात्वविरहेऽपि न क्षतिः ।
स्वयमनुपात्तानां कर्मणामुदयस्याऽपि तथात्वविरहात् 'प्रागुपात्तत्वम्' कर्मणो विशेषणम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org