________________
अनेकान्तः एव कान्तः (२९)
विकल्पाऽनुपपत्तेः । तथाहि - विशेषरूपता सामान्यतो भिन्ना अभिन्ना वा ? २-यद्यभिन्ना तदा विशेषः विशेषः एव न भविष्यति सामान्यमेव भविष्यति । यथा सामान्यतो अभिन्न सामान्यस्वरूपं न विशेषः तथा सामान्यतोऽभिन्नः विशेषोऽपि न विशेषः, सामान्याद् अभिन्नत्वात् ।
१-यदि च सामान्याद् भिन्ना तदा विशेषरूपता एव कल्प्यताम्, यतः विशेषस्यैवाऽर्थक्रियाकारित्वेन तत्तत्पदार्थार्थिप्रवृत्तिविषयत्वात्, तद्गतविशेषमाश्रित्यैव कोऽपि तदर्थी । तत्र प्रवर्तते इति विशेषस्य तत्तत्प्रवृत्तिविषयतेति विभावनीयम् । एवञ्च न एक सामान्यविशेषोभयरूपम् । ३-विशेषरूपता सामान्यतो भिन्नाभिन्ना चेद् विरोधस्तदा इति त्यजतु उभयरूपवस्तुवादाभिमानम् ।
प्रमाणवार्तिके (३/१८२) धर्मकीर्तिनाऽयमेव पदार्थः उष्ट्रदधिदृष्टान्ते योजितः ग्रन्थकृता चाऽस्मिन् ग्रन्थे तमनुसृत्य पूर्वपक्षः उत्थापितः । उष्ट्र-दधिदृष्टान्तश्च स्पष्टः । तत्राऽपि स्वयमेव एतत्सर्वं योज्यम् ।
किञ्च, शबलवस्त्वभिमानिनः भवतो मते 'अयं घटः' इत्यादिबुद्धिरपि न घटते, यतः भवन्मताऽनुसारेण घट: घटोऽपि पटोऽपि । उक्तबुद्धौ केवलं घटत्वेन रूपेणैव घटस्य भानं, न तु पटत्वेन रूपेण पटस्याऽपि । घटशब्दप्रवृत्तिनिमित्तं घटत्वम् एव । यत्र पटत्वादिकं स्यात् तत्र न घटशब्दप्रवृत्तिर्भवति, अन्यथा पटमुद्दिश्य कृतस्य 'अयं घटः' इत्यादिप्रयोगस्याऽपि साधुत्वापत्तेः । भवन्मतानुसारेण च घटेऽपि पटत्वस्य सत्त्वान्न तत्र 'अयं घटः' इति बुद्धिः सम्भवति, यदि तत्र घटत्वस्य सत्त्वात् 'अयं घटः' इति बुद्धेः प्रामाणिकत्वमुद्भाव्यते तदा सर्वत्र सर्वमुद्दिश्य तादृशी बुद्धिः स्यात्, सर्वत्र घटत्वस्य सत्त्वात् । तथा च पटत्वाद्यसंसृष्टघटत्वविशिष्टानां वाचकः शब्दः एव न कोऽपि, पटत्वाद्यसंसृष्टघटत्वादिविशिष्टानामभावेन तद्विषयकबुद्धेरप्यभावात् । ____ यदि च केवलघटाद्यवगाहिनी बुद्धिः अङ्गीक्रियते तदा घट-पटादीनां स्वभावभेदः सिध्यत्येव, यतः द्वयोः स्वभावस्याऽभिन्नत्वे एकस्य भाने अन्यस्य अवश्यं भानं भवति । स्वभावभेदसिद्धौ च घट: एकान्तेन घट: एव. न पट:. पटश्च पट एव. न घट: । तथा च शबलवस्त्वभ्यपगमो न भवतः ॥
किञ्च, यदि भवान् अनेकान्तवादी सर्वं सर्वात्मकं कक्षीकरिष्यति तदा घटं घटरूपेणैव कथं जानीयाद् अभिलपेद् वा ? घटे घटरूपताया इव पटरूपतायाः अपि सत्त्वात् केवलघटरूपतायाः ज्ञानस्याऽसम्भवात् । ततश्च घट-पटयोः भेदः एव न स्यात्, ज्ञानाभिलापकृतः भेदः भवति । अत्र च घट-पटयोः ज्ञानस्याऽपि न भेदः, अभिलापस्याऽपि न भेदः । एवं यदि घट-पटादीनां भेद एव नास्ति तदा घट-पटयोरेकीकरणरूपः संहारवादः = स्याद्वादः कथं स्यात् ? 'घटः स्याद् घटः स्याद् अघटः' इत्येवंरूप: भवदभिलषितः स्याद्वादः कथमपि न सिध्येत् । यथा विभक्तयोः संयोगः भवति तथाऽनेकयोरेवैकीकरणं सङ्गच्छते, अत्र च अनेकपदार्थनामेवाऽभावान्न तत् सङ्गच्छते इति सृतम् अनेकान्तवादेन।
यदि आदौ घटं घटतयैव पटञ्च पटतयैव ज्ञात्वा पश्चाद् घटपटादीनाम् एकीकरणं करोति इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org