________________
अनेकान्तः एव कान्तः (२८)
यदप्रच्युताऽनुत्पन्नस्थिरैकस्वभावं तद् नित्यं कथ्यते, एतद्विपरीतं यत् तदनित्यम्, एतद्वितयञ्च एकस्मिन्नेव वस्तुनि कथं सङ्गच्छेतेति।
न च भवदुक्तं कूटस्थनित्यत्वं नाऽस्माभिः अङ्गीक्रियते, किन्तु परिणामिनित्यत्वमङ्गीक्रियते। मृद्रव्यं स्थास-कोश-कुशूलादिपर्यायेषु परावर्तमानेषु अपि अनश्वरमिति घटादेः मृद्रव्यत्वेन नित्यत्वम् । मृद्रव्यत्वेन घटस्य नित्यत्वेऽपि घटत्वेनाऽनित्यत्वात् पर्यायपरिवर्तने परिवर्तनशीलत्वाद् अनित्यत्वसम्भिन्ननित्यत्वं हि तत् 1 तदेव हि परिणामिनित्यत्वम् । ततश्च द्रव्यं नित्यम्, पर्यायाः अनित्याः, द्रव्यत्वेन द्रव्यस्य नित्यत्वं पर्यायस्य विनश्वरतया तेन रूपेणाऽनित्यत्वमित्येवम् एकस्मिन् एव वस्तुनि द्रव्यत्वेन नित्यत्वं पर्यायरूपेणाऽनित्यत्वम् अङ्गीक्रियते अस्माभिः इति न काचिद् अनुपपत्तिररिति वाच्यम्;
एतदङ्गीकारे पर्यायतो भिन्नद्रव्यस्य कल्पनाऽऽपत्तेः । न च पर्यायतो भिन्नं द्रव्यम् अनुभवाभावात् । पर्यायविशिष्टम् एव द्रव्यमनुभूयते । यदि द्रव्यं पर्यायतो भिन्नं स्यात् तदा पर्यायविनिर्मोकेण । केवलद्रव्यस्याऽपि प्रतीतिः स्यात्, न च सा भवति ।
किञ्च, द्रव्यात् पर्यायस्य भिन्नत्वे 'पर्यायरूपं द्रव्यम्' इति वक्तुं नैव शक्यते । ततश्च अनेकरूपमेकं वस्तु' इति अपि वक्तुं नैव शक्यते । 'द्रव्यं पर्यायतो भिन्नाभिन्नम्' इति नैव वक्तव्यम्, विरोधेनैव तन्निरासात्।
एवम् एकं वस्तु सामान्य-विशेषोभयात्मकं न सम्भवति, यतः ‘एकं नित्यं निरवयवम् अक्रियं' । सामान्यं भवति । विशेषाश्च अनेके अनित्याः सावयवाः सक्रियाश्च भवन्ति । तत्कथं यत् सामान्यरूपं तद् विशेषरूपं यद् विशेषरूपं तत् सामान्यरूपम् ?
किञ्च, यदि सर्वेषां वस्तूनामुभयरूपत्वमङ्गीक्रियते तदा विषं मोदकोऽपि मोदकश्च विषमपि, विषाऽभिन्नसामान्यस्य मोदकेऽपि अभेदेनैव वृत्तेः । सामान्यञ्च विश्वे एकमेव भवति, यत् सामान्य मोदके तद् विषेऽपि, सामान्यञ्च मोदकादितोऽभिन्नमेव इति मोदक: न मोदकः एव किन्तु विषमपि, विषं न विषमेव किन्तु मोदकोऽपि । एवञ्च विषार्थी मोदके प्रवर्तेत, मोदकार्थी च विषे, न चैवं दृश्यते । तथा विषे भक्षिते मोदकोऽपि भक्षितः भवेत्, मोदके भक्षिते विषमपि भक्षितं स्यान्नैतदेवमनुभूयते । एवमन्यत्राऽपि योजनीयम्।
न च 'केवलमस्माभिः वस्तुनि सामान्यरूपतैवाङ्गीक्रियते, किन्तु विशेषरूपताऽपि । ततश्च ।। प्रतिवस्तु भिन्नाः भिन्नाः विशेषाः, त एव प्रतिनियतप्रवृत्तेर्बीजम् । यः विशेषः मोदके सः न विषे यश्च विषे सः न मोदके । यत्र विषनिष्ठविशेषः तत्रैव विषार्थी प्रवर्तेत यत्र च मोदकनिष्ठविशेषः तत्रैव मोदकार्थी प्रवर्तेतेति न किञ्चिदनुपन्नमिति वाच्यम्;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org