________________
अनेकान्तः एव कान्तः (२७)
किञ्च, धर्म-धर्मिणोः भेदाभेदमभ्युपगच्छता स्याद्वादिना अवश्यमेतत्कक्षीकार्यं यदुत धर्मधर्मिणोः स्वभावतः तु अभेदः एव, केवलं नामाद्यपेक्षया धर्म-धर्मितया च धर्म-धर्मिणोः भेदः । । एतच्च न सम्भवति - (१) वस्तुतः तयोरभेदे यदेव स्वरूपं धर्मस्य तदेव धर्मिणः, यदेव धर्मिणः तदेव धर्मस्य, ततः नैव धर्म-धर्मिणोः धर्म-धर्मिरूपेणाऽपि भेदः सम्भवति, तत्स्वरूपवत् ।
(२) यदि धर्म-धर्मिणोः स्वभावतोऽपि भेद एव स्वीक्रियते तदा धर्मद्वयधर्मिलक्षणपदार्थत्रितयमेव स्यादिति पूर्वोक्तभेदपक्षयुक्त्या नैकम् उभयरूपं स्यात् । स्याद्वादिना तु एकं वस्तु उभयरूपं साधनीयम्।
(३) यदि च स्वभावतः तेषां भेदाऽभेदकल्पना क्रियते तदा पुनः ते एव दोषाः यदुत येनाऽऽकारेण भेदः तेनाऽऽकारेण भेदः एव कक्षीक्रियते यद्वा अभेदोऽपि इति पूर्वोक्तविकल्पाऽनुसारेण ।। सत्त्वाऽसत्त्वाभेदाऽऽपत्त्यादयः स्वयमेव विभावनीयाः । ततश्च न हि एकमेव वस्तु सदसद्रूपमिति । फलितम्। ___किञ्च, यादृशं ज्ञाने भासते तादृशं वस्तु भवति, न हि एकमेव वस्तु सदसद्रूपं कस्मिंश्चिदपि ज्ञाने । भासते । तथा हि - द्विविधं हि ज्ञानम् - १ प्रत्यक्षम्, २ अनुमानञ्च । तत्र १ प्रत्यक्षज्ञाने सत्त्वासत्त्वे नैव भासेते, यतः प्रत्यक्ष रूप-रसादिमद् वस्तु एव गृह्णाति, असत्त्वञ्चाऽरूपि, सत्त्वाभावरूपत्वात् । ततः न तस्य प्रत्यक्षं भवति । अतः प्रत्यक्षज्ञाने सद्रूपमेव वस्तु गृह्यते, न तु असद्रूपम् इति स्थितम् ।
२ अनुमानेऽपि न ज्ञायते, यतः अनुमानं केनाऽपि हेतुनैव भवति । 'इदं वस्तु सदसद्रूपम्, तत्कार्यस्य सदसद्रूपत्वाद्' इत्येवं कार्यतोऽनुमानं तस्य नैव भवति, उभयरूपस्य कार्यस्याऽनुपलम्भात् । ।।
न च सत्त्वधर्मः कारणनिष्ठः कार्ये सत्त्वधर्मं जनयेत्, असत्त्वधर्मश्चाऽसत्त्वं जनयेदिति सिध्यति उभयरूपं कार्यम् इति वाच्यम्; विकल्पद्वयाऽनतिक्रमात् । तथा हि-वस्तु केनचिद्रूपेण कार्यं जनयेत्, सर्वात्मना वा? १ न केनचिद्रूपेण, यतः तथाऽभ्युपगमे केनचिद्रूपेण वस्तु कार्यं करोति केनचिद्रूपेण न इति आपतितं तच्च विरोधग्रस्तम्। - २ यदि सर्वात्मना कार्यं करोति तदाऽपि कार्यं भावरूपमेव स्यात्, यतः असत्त्वस्य अभावरूपत्वेन सर्वशक्तिविकलत्वात् कार्यजननशक्तिमत्त्वं तत्र न सम्भवति, ततः कथं कार्यमुत्पादयेद् ? इति भावरूपमेव कार्यं स्यात्, ततः न किमपि कार्यमुभयरूपं स्यात् । यदि अभावोऽपि कार्यं जनयेत् तदा अभावस्य सर्वदा विद्यमानत्वाद् तत्र विशेषस्य असत्त्वात् कनक-कटकाद्युत्पत्त्यनुपरतेः विश्वमदरिद्रं स्यात् एकस्मादेवाऽभावात् कनकादिसर्ववस्तूनामुत्पत्तिसम्भवात्, भावपदार्थवत् प्रतिनियतकार्यजननविशेषस्य तत्राऽभ्युपगन्तुम् अशक्यत्वादिति नाऽनुमानतोऽपि किमपि वस्तु सदसद्रूपं संवेद्यते इति स्थितम्।
अत एव च न किमपि सदसद्रूपमिति स्थितम् । एवम् एकमेव वस्तु नित्यमपि अनित्यमपि न सम्भवति, विरोधादेव । "
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org