________________
अनेकान्तः एव कान्तः (२६)
ख-गोभयपदार्थयोः, अन्यथा पुनः पूर्वोक्तयुक्त्या ख-गपदार्थयोरेक्याऽऽपत्तेः, तच्चाऽनिष्टमिति " खपदार्थस्य यदि कपदार्थे अभेदः तदा गपदार्थस्य अभेदः तत्र न सम्भवति किन्तु अन्यस्मिन्
कस्मिंश्चित् सम्भवेत्, यदि च गपदार्थस्य कपदार्थे अभेदः तदा ख-पदार्थस्य कपदार्थातिरिक्ते अभेदः कक्षीकर्तव्यः इति ॥
खपदार्थाऽभिन्नपदार्थतः गपदार्थाभिन्नपदार्थः व्यतिरिक्त एव कल्पनीयः इत्यतः न खगपदार्थयोः एकत्रैव कपदार्थे अवस्थानं सम्भवति इति निश्चीयते । प्रकृते कपदार्थविधया अभिप्रेत: एको धर्मी खपदार्थविधया सत्त्वधर्मः, गपदार्थविधयाऽसत्त्वधर्मश्च ज्ञेयः इति ।
(३) यदि तृतीयो विकल्पः भेदाभेदाऽऽख्यः कल्प्यते तर्हि अपि न निस्तारः । तथाहि -
क - "धर्मी येनाऽऽकारेण = येन रूपेण = यदपेक्षया सत्त्वाऽसत्त्वधर्मतोऽभिन्नः न हि तेनैवाऽऽकारेण भिन्नः । ततश्च येनाऽऽकारेण भेदः तेनाऽऽकारेण भेदः एव । येन चाऽभेदः तेनाऽभेदः एव" इति यदि अभ्युपेयते तदा भेदाऽभेदपक्षोक्तोभयदोषाऽऽपत्तिः । धर्म-धर्मिणोः केनाऽपि एकेनाऽऽकारेण भेदः अङ्गीक्रियते तत्र धर्म-धर्मिणोः स्वातन्त्र्यसिद्धेः सत्त्वाऽसत्त्वधर्मयोश्च परस्परपरिहारेणाऽवस्थानलक्षणविरोधान्नैकं वस्तु उभयरूपम् इति वक्तुं शक्यते इति एकेन आकारेण ) भेदस्याङ्गीकारेऽपि नाभिलषितसिद्धिः।
एवञ्च एकेनाऽऽकारेणाऽभेदस्याङ्गीकारेऽपि पूर्वोक्तदोषाः आवर्तन्ते यदुत एकेनाऽऽकारेणाऽभेदाभ्युपगमे तदपेक्षया सत्त्वाऽऽसत्त्वयोरैक्यं स्याद् यद्वा धर्मिद्वयं कल्पनीयमिति नैकत्र उभयसिद्धिः SS इति नाभिलषितसिद्धिः।।
ख- येनाऽऽकारेण भेदः तेनाऽऽकारेणैवाभेदाङ्गीकारे स्पष्टः एव विरोधः, येनाऽऽकारेण भेदः तेनैवाकारेणाऽभेदस्याऽत्यन्तमसम्भावितत्वात् ।
ग - "येनाऽऽकारेण भेदः तेनाऽऽकारेण भेदोऽपि, अभेदोऽपि, येनाऽऽकारेण च अभेदः तेनाऽऽकारेण अभेदोऽपि, भेदोऽपि। ततश्च वस्तुनि ये केऽपि आकाराः तैः सर्वैः अपि भेदाभेदः एव, प्रथमाऽऽकारेणाऽपि भेदाभेदः द्वितीयाकारेणाऽपि भेदाभेदः इत्येवं सर्वैराकारैः भेदाभेदः एव, न तु एकेनाऽपि आकारेण केवलं भेद एव अभेद एव वा इति न विरोधः" - इत्येवमङ्गीकारे पुनः पूर्वोक्तमेवाऽऽवर्तते । तथा हि-भेदाभेदः = भेदश्च अभेदश्च । येन एकेनाऽऽकारेण भेदाभेदः वर्तते तस्याकारस्य येनांऽशेन = येनाकारेण (आकारस्य अंशोऽपि आकार एव) भेदः तेनैव अभेदः ? यद्वा येन भेदः तेन भेदः एव........ इत्यादिपूर्वोक्त-विकल्पा एवाऽऽवर्तन्ते इति पुनः पुनः भेदाभेदविकल्पाङ्गीकारे अनवस्था अनपलपनीया ततश्च स्पष्टीकर्तव्यमेव केनाऽऽकारेण भेदः केनाऽऽकारेणाऽभेदः, तत्करणे च पूर्वोक्तदोषाः आपद्यन्ते इति सत्त्वाऽसत्त्वधर्म-धर्मिणोः भेदः अभेदः भेदाभेदः वा-कोऽपि विकल्प: न सम्भवति । ततश्च नैकं वस्तु उभयरूपम् इति सिद्ध्यति इति शान्तचेतसा सम्यग्विभावनीयम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org