________________
अनेकान्तः एव कान्त: (२५)
अंशाः सौकर्यार्थं कल्पिताः ।
तत्रादौ सदसत्स्याद्वादनिराकरणं पूर्वपक्षेण कृतम् । तस्याऽयमाशयः - एकमेव वस्तु सदपि असदपि वेति न सम्भवति, यतः यत्र सत्त्वं वर्तते तत्र नाऽसत्त्वं भवति, यत्र वाऽसत्त्वं तत्र न सत्त्वमिति सत्त्वाऽसत्त्वयोः परस्परपरिहारेण अवस्थिते: एकस्मिन्नेव वस्तुनि सत्त्वाऽसत्त्वधर्मयुगलं न सम्भवति ।
किञ्च, एकमेव वस्तु सद्रूपमपि असद्रूपमपि इति अभ्युपगच्छता स्याद्वादिना सत्त्वाऽसत्त्वधर्मो एकस्मिन् धर्मिणि अभ्युपगतौ भवतः । अत्र तावदस्माकं पर्यनुयोग: यदुत सत्त्वाऽसत्त्वधर्म-धर्मिणोः भेदः॑ अभेद भेदाभेदौ वा ?
(१) नाद्य: हृद्यः, धर्म - धर्मिणोः भेदाऽभ्युपगमे त्रयः पदार्थाः सिद्धाः- धर्मी, सत्त्वम्, असत्त्वञ्च । सत्त्वाऽसत्त्वयोश्च परस्परपरिहारेणाऽवस्थितत्वात् कथमेकमेव वस्तु सत्त्वाऽसत्त्वोभयधर्मविशिष्टं स्यात् ? - इति न एकं वस्तु सदसद्रूपमिति ।
ननु आदौ ‘सत्त्वाऽसत्त्वधर्मयोः परस्परपरिहारेण अनवस्थानलक्षणविरोध: किमर्थं स्वीक्रियते' इति तु दर्श्यताम् ? इति चेद् ? न, यत: यद् वस्तु अर्थक्रियाकारि तत् सत्, यच्च न तथा तद् असत् । ततश्च यद् वस्तु अर्थक्रियां करोति तद् 'न करोति' - इति वक्तुं न पार्यते, यच्च न करोति तत् 'करोति' इति वक्तुं न पार्यते । अतः सत्त्वाऽसत्त्वधर्मौ नेकत्राऽवतिष्ठेते ।
( २ ) सत्त्वाऽसत्त्वधर्म-धर्मिणोः अभेदः यदि स्वीक्रियते तदा सत्त्वाऽसत्त्वयोरेकत्वाऽऽपत्तिः, एकत्रोभयाऽसिद्धिः वा । तथाहि - भवता कीदृश: अभेद: अङ्गीक्रियते ?
क - सत्त्वासत्त्वप्रतियोगिकधर्म्यनुयोगिक: अभेदः ? यद्वा
ख - धर्मिप्रतियोगिकसत्त्वासत्त्वाऽनुयोगिक: अभेद: ?
क़ - यदि सत्त्वादेः अभेद: धर्मिणि वर्तते तदा धर्मिणः एकत्वात् तेन च सत्त्वाऽसत्त्वयोरभेदाद् धर्मि-सत्त्वाऽसत्त्वैतंत्त्रितयमपि अभिन्नं जातम् इति सत्त्वाऽसत्त्वधर्मयोरभेदाऽऽपत्तिः ।
ख - यदि च धर्मिण: अभेदः सत्त्वाऽसत्त्वादिधर्मे तदा सत्त्वाऽसत्त्वयोः भेदाद् यस्य धर्मिणः अभेदः सत्त्वे वर्तते तस्यैव धर्मिणः अभेदः असत्त्वे नैव स्यात्, यस्य धर्मिण: अभेदः असत्त्वे वर्तते तस्यैव धर्मिणः अभेदः सत्त्वे न स्यादिति धर्मिद्विकं कल्पनीयम् । ततश्च नैकस्मिन्नेव धर्मिणि उभयधर्मसिद्धिः ।
इदमत्राकूतम् - असत्कल्पनया त्रयः पदार्थाः कल्प्यन्ते । प्रथमस्य कसज्ञा द्वितीयस्य चसञ्ज्ञा तृतीयस्य च गसञ्ज्ञा । कपदार्थे यदि खपदार्थस्य गपदार्थस्य चाऽभेदः वर्तते तर्हि क - ख-गपदार्थाः अभिन्ना एव जाता: इति खपदार्थ-गपदार्थयोरपि अभेदः एव सिद्ध्यति । यदि ख-गपदार्थयोः अभेदः अनिष्ट:, अत: खपदार्थस्य कपदार्थेऽभेदः अस्ति इति कल्प्यते तदैतदवश्यमङ्गीकर्तव्यं यदुत खपदार्थस्यैव कपदार्थे अभेदः सम्भवति, यद्वा केवलगपदार्थस्यैवाऽभेदः कपदार्थे सम्भवति, न तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org