________________
अनेकान्तः एव कान्तः (२४)
सदृशोऽपि, किन्तु कर्णाद्यपेक्षया, न तु सर्वात्मना एकान्तेन । कोऽपि अन्धजनो हस्तिनः पादं स्पृष्टवा , तं च स्तम्भसदृशं ज्ञात्वा सम्पूर्ण गजमेव यदि स्तम्भसदृशं कथयेत् तदा न तस्य प्रामाणिकत्वम्, गजस्य पादाऽपेक्षयैव स्तम्भसदृशत्वात्, कर्णाद्यपेक्षया तु तस्य सूर्पादिसदृशत्वात् । ___ एवमेव स्वपुत्राऽपेक्षया पितृत्वधर्मवतः यथा स्वपित्रपेक्षया पुत्रत्वमपि भवत्येव, न हि केवलः सः पिता पुत्रः वा, किन्तु अपेक्षया पुत्रोऽपि पिताऽपि च, एवम् अपेक्षातो परस्परं विरुद्धतया भासमानानामपि धर्माणाम् एकत्र समावेशः संवेदनं च सर्वैरनुभूयते, किन्तु केचन मिथ्यात्वमोहितमतयः न तत् स्वीकुर्वन्ति, अन्धजनकल्पाः ते आत्मत्वाद्यपेक्षया नित्यत्वाऽऽक्रान्तस्याऽऽत्मनः सर्वथा नित्यत्वं मनुष्यत्वादिपर्यायापेक्षया अनित्यत्वाऽऽक्रान्तस्याऽऽत्मनः सर्वथा अनित्यत्वं वा प्रजल्पन्ति । 'आत्मा नित्य एव, अनित्य एव वा' 'आत्मा एकान्तेन स्वगुणेभ्यो भिन्न एव, अभिन्न एव वा' - इत्याद्येकान्तवादवितथवासनावासितत्वेन तेषां न सम्यग्ज्ञानाऽऽप्तिः एतज्ज्ञानाऽऽप्तिं विना न कदाऽपि केवलज्ञानम् । यावच्च न केवलज्ञानाऽऽप्तिः तावत् करालकष्टकोटिभिः क्लिश्यमानत्वमेव जीवानाम् ।।
एतच्च दृष्ट्वा पुरोदृश्यमानं सुलभममृतं त्यक्त्वा मिथ्यात्वमोहस्य अप्रतिहतप्रसरप्रभावाधीनतया मृगजलंप्रति धावमानानां तेषां मोहापनयनायैव अनेकान्तसिद्धान्तः युक्तिपुरस्सरं करुणापूर्णान्तःकरणैः याकिनीमहत्तरासूनुसूरिपुरंदरश्रीहरिभद्राचार्यैः प्रदर्शितः । एकान्तवादिनां पुरः अनेकान्तजयद्योतिका गगनचुम्बिनी काञ्चनशैलशिखरस्पर्धिनीति पताका स्थापिता । सैवेयम् अनेकान्तजयपताकाधुना भवत्करतलसरोरुहेषु उपायनीभूतेति महान् प्रमोदावसरः। ____ यद्यपि अनेकान्तजयपताकाऽऽख्यमिदं प्रकरणं महाणर्वकल्पं नानाऽभिनवंतर्कोच्छलदुर्मिकुलाकुलं दृश्यमानाऽनेकान्तवादमहामुद्रामुद्रिताऽनिद्रप्रमेयसहस्रोत्तुङ्गरिङ्गत्तरङ्गभङ्गिसङ्गसौभाग्यभाजनम् अद्भुताऽनर्घाऽनेकान्तसिद्धान्तरत्नाकरं पद-पदार्थसङक्षेपादितिमितिमिङ्गलाद्येकान्तवादविनाशबद्धलक्ष्मजलचरनिकराकीर्णम् अत एव मन्दमतीनां दुरधिगम्यम् इति तत्प्रवेशसौकर्याऽऽपादनार्थं ग्रन्थकृतैव अनेकान्तवादप्रवेशग्रन्थः विरचितः तथापि तत्र पद-पदार्थसङ्क्षपस्य तथाविधत्वादेव
अनेकान्तजयपताकामूलग्रन्थवैशिष्ट्यप्रदर्शनार्थं पदार्थस्य सरलसङ्ग्रहार्थं किञ्चित्पदार्थास्वादनकृते ॥ अनेकान्तजयपताकाग्रन्थारम्भस्य पदार्थसङग्रहः सरलया गिरा प्रदर्श्यते, अनेन अनेकान्तजयपताका।। महार्णवे तथाविधमतिशक्तिलक्षणयानविकलानां अपि समवतारः सुकरः स्यात्, एतत्पदार्थ
सङग्रहपरिज्ञानेन तथाविधमतिशक्त्याधानस्य अत्यन्तं सम्भावितत्वात् । ____'जयति विनिर्जितरागः' इत्यादिश्लोकैः चरमतीर्थाधिपतिमहावीरजिनभावस्तवरूपैः प्रारीप्सितप्रबन्धप्रतिपन्थिप्रत्यूहव्यूहप्रध्वंसपटीयःपरमात्मप्रणमनरूपमङगलं कृत्वा प्रकृतप्रकरणं स्वकर्तव्यतयोपदर्शितम्, पूर्वाचार्याचीर्णस्य सात्म्याऽऽपादकस्य स्वप्रिययोगस्य अन्ययोगाऽनपलापेन कर्तव्यत्वात् । ग्रन्थप्रारम्भे एकान्तवादिनां मतं समीक्षणार्थमुपदर्शितम् । अत्र पूर्वपक्षग्रन्थस्य अनेके
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org