________________
अनेकान्तः एव कान्त: ( २३ )
वा एकान्तवादवासनापाशतोऽमुच्यमानान् दुःखितान् अखिलान् जन्तून् समभिवीक्ष्य नय-दुर्नयसुनय - निक्षेप - प्रमाण- सप्तभङ्गी-सकलादेश - विकलादेशानुयोगादिनानाप्रमेयव्याप्तं संसारसागरसंतरणसमीचीनसामुद्रयानसमं विकस्वरविमलवाग्विभवविजितवित्तेशवित्तविभवम् अनेकान्तसिद्धान्तसन्दर्शकस्थापकं द्वादशाङ्गगर्भितं जैनेन्द्रप्रवचनं प्रणिनाय ॥
सर्वानर्थपारावारप्रवाहनिमज्जननिदानमूर्द्धाभिषिक्तमिथ्याज्ञानवासनापिशाचिकावेशविवशा: जीवा: नित्यानित्यत्वादिशबलधर्माक्रान्तस्यैव वस्तुनः सद्भावेऽपि एकान्तनित्यत्वादिकमुद्भावयन्तः एकान्तवादावगाहिकुतर्कशततमोमलीमससद्दृष्टयः अनेकान्तात्मकं वस्तुतत्त्वं याथातथ्येनाऽवगन्तुं न शक्नुवन्ति इति श्रीसिद्धसेनसूरि- हरिभद्राचार्यादिपूर्वाचार्यै: युक्तिसहस्त्रैः अनुभवलक्षैः व्यवस्थापितः युक्तिपूर्णाऽनेकान्तवादः । तत्परिज्ञानप्रभावप्राप्तयथावद्विवेकालोकसमुत्सारिततमसः हेयोपादयरागद्वेषविहीनाः कर्माण्यसञ्चिन्वानाः क्लिष्टकर्माणि ज्ञानाग्निना भस्मसात्कृत्य जन्मान्यलभमानाः न बध्यन्ते अनर्थपाशशतैरिति विवेकिभिः आश्रयणीयः अनेकान्तवाद एव अनर्थलक्षमोक्षकाङ्क्षिभिः ।
एतदनेकान्तप्ररूपकं जैनेन्द्रप्रवचनं जैनदर्शनम्, अनेकान्तदर्शनम्, स्याद्वाददर्शनम् - इत्यादिरूपैः `प्रसिद्धम् । भारतीयाऽऽस्तिकदर्शनेषु जैनदर्शनस्य मूल्यम् प्रभावः, वैज्ञानिकत्वम् अनन्यसदृशम्, वैदेशिकविद्वद्भिरपि प्रशंसितम् । एतच्चाऽसहमानाः केचन वावदूकाः विवदन्ते, जैनदर्शनस्य नास्तिकत्वञ्च प्रजल्पन्ति । उक्तं च मञ्जूषादिवृत्तिसमेतन्यायसिद्धान्तमुक्तावलीपुस्तकप्रस्तावनायां शङ्कररामशास्त्रिणा - "आस्तिकदर्शनानि षड्- न्यायः, वैशेषिकः, साख्यम्, योग:, मीमांसा, वेदान्तश्च" एतेन अन्यैश्च एतादृशैः अन्यत्र अनेकत्र जैनादीनां दर्शनानां नास्तिकत्वव्यवस्थापनाय व्यर्थ: स्वमौर्यमत्सरादिप्रदर्शक: प्रयत्नः कृतः ।
. ज़ैनदर्शनम् उत्कृष्टमास्तिकदर्शनम्, तस्य नास्तिकत्वकथनं न युक्तिक्षमं, यतः “अस्ति नास्ति दिष्टं मति:” (पा. ८/८/६०) इतिपाणिनिसूत्रानुसारेण आस्तिक-नास्तिकशब्दौ लब्धात्मलाभौ, . तयोः मौलिकाऽर्थः अयमेव यदुत - इन्द्रियातीततथ्यस्वीकार: आस्तिकत्वं तत्तिरस्कारः नास्तिकत्वमिति चार्वाकादीनामेव नास्तिकत्वं सिध्येन्न तु जैनादीनामिति स्पष्टम् अवधातव्यम् अङ्गीकार्यं च ।
“वेदप्रामाण्याऽभ्युपगन्तृत्वं शिष्टत्वम्" इत्यस्य तु "शिष्टत्वं च फलसाधनतांशे भ्रान्तिरहितत्वं न तु.वेदप्रामाण्याऽभ्युपगन्तृत्वम्" इति मुक्तावलीदिनकर्युक्त्यैव दूषितत्वान्न जैनानामशिष्टत्वमित्यलं प्रसक्तानुप्रसक्तेन, ‘क्षीणदोषः पुरुषः शिष्ट:' इत्यादिना महोपाध्यायैः यशोविजयगणिवरैः द्वात्रिंशिकाप्रकरणे (१५/१६-३२) अस्माभिश्च तद्वृतौ नयलतायाम् अस्य चर्चितत्वात् ।
सूत्रकृताङ्गभगवत्यादिमूलाङ्गसूत्रप्रतिपादितः अनेकान्तः एव जैनदर्शनस्य मुख्यः राद्धान्तः, अनेकान्तदृष्ट्या एव वस्तुतत्त्वस्य परिपूर्णपरिज्ञानसम्भवात्, अनेकान्तवादे एव शबलधर्माक्रान्तवस्तुनः सर्वाङ्गीणबोधसम्भवात् । गजादिदृष्टान्तेन एतत् सुप्रसिद्धम् । यथा गजः सूर्पसदृशोऽपि, स्तम्भ -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org