SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अन्तर्वर्षा (८) चतुर्थः स्तम्भस्तावद् अनेकान्तजयपताकाग्रन्थः । प्रायः त्रिंशद्वर्षपूर्वं अध्ययन भावनाऽभूद् यदुतास्य क्लिष्टतमग्रन्थस्य साधु-साध्वीमध्येऽध्ययनसौकर्यार्थं किञ्चित् कर्तव्यम् । अधुना सा भावना सफलीभूता ॥ मच्छिष्यमुनिश्रीयशरत्त्रविजयस्य दृष्ट्वा न्याय - कर्म साहित्यादौ सरसां गतिं, अध्ययनमध्यापनञ्च सरसं कृतवन्तं समवलोक्य लेखनकार्यार्थं प्रेरणा दत्ता ॥ मुनिश्रीसौम्याङ्गरत्नविजयसाहाय्येन तेन मुनिनाऽल्पदीक्षापर्यायकाले पूज्यगुरुदेव - श्रीगुणरत्नसूरीश्वरकृतदेशोपशमनाग्रथस्य संपादनं संशोधनपूर्वकं कृतम् लब्धा च गुरुकृपा । न्यायग्रन्थलेखनप्रस्तावे च पण्डितशुभविजयगणिरचितस्याद्वादभाषायाः श्रीसिद्धसेनदिवाकरसूरिरचितन्यायावतारस्य चानुवादः कृतः ॥ प्रेरितश्चास्य महाकायग्रन्थस्यानुवादार्थम् । तेन सहर्षं स्वीकृतम्, गाढपरिश्रमेण च सुविस्तृतविवेचनकार्यमल्पसमयेनैव निष्ठापितम् । परमपूज्यशासनप्रभावक-आचार्य श्रीरत्नसुन्दरसूरीश्वरशिष्यैः विद्वद्वर्यमुनिभव्यसुन्दरविजयैश्चायमनुवादः सूक्ष्मेक्षिकया परिमार्जितः, सोल्लासञ्च साहाय्यं वितरितम् ॥ 1 अस्मिन् अनुवादे न केवलं शब्दविवेचनम्, अपि त्वाङ्गलभाषायां यदुच्यते- "टु रीड बिटवीन ध लाईन्स" - तदनुसारेण ग्रन्थपङ्क्तिहार्दमप्याविष्कृतम् । जैनदर्शनशास्त्रस्य सेवामाध्यमेन तेन स्वात्मकर्मक्षयार्थं यत्पुरुषार्थः कृतः स सुतरामनुमोदनीयः । तत्परिश्रमसाफल्यं तदैव भवेद् यदा सुविहितजनमध्ये अस्याध्ययनाध्यापनं व्यापकं भवेत् । आशा बलीयसीति न्यायेन आशापूर्वकं विरमामि ॥ Jain Education International लि. आचार्यरश्मिरत्नसूरिः Cagger For Personal & Private Use Only www.jainelibrary.org
SR No.005532
Book TitleAnekantjaipataka Part 01
Original Sutra AuthorN/A
AuthorBhavyasundarvijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages370
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy