________________
“अभिहितञ्च नन्दीसूत्रे
उक्तञ्च अन्यत्रापि
अन्तर्वर्षा (७)
"निव्वुइपहसासणयं जयइ सया सव्वभावदेसणयं । कुसमयनासणयं, जिणिंदवरवीरसासणयं ॥
"जैनेश्वरे हि वचसि, प्रमाणसंवाद इष्यते । प्रमाणबाधा त्वन्येषामतो द्रष्टा जिनेश्वरः ||"
प्रतिपादितञ्च बृहत्स्वयम्भूस्तोत्रे
‘“नयास्तव स्यात्पदसत्त्वलाञ्छिता रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ प्रकथितञ्च तीर्थोद्गारिके
“दव्वट्टयाए निच्चो, होइ अणिच्चो अ नयमए बीए । एगत्तो मिच्छत्तं जिणाण आणा अणेगंता ||
सुगदितञ्च श्रीसिद्धसेनद्वात्रिंशिकायाम्
"सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसम्पदः । तवैव ताः पूर्वमहार्णवोत्थिता जगत्प्रमाणं जिनवाक्यविप्रुषः ॥"
एतादृशास्तु बहवः श्लोकाः विद्यन्ते । यद्यपि अनेकान्तवादस्य महिमा वचनागोचरीभूतः, बृहस्पतिरपि तद्वक्तुमसमर्थ:, तथापि भक्तिप्रेरितग्रन्थकारैर्विहिताः स्तुतयः ॥ अनेकान्तजयपताकाग्रन्थविषयवस्तुस्तुतिं कृत्वा कथयामि प्रकृतम्
प्रस्तुतानेकान्तजयपताकाग्रन्थस्य जैनदर्शनाख्यप्रासादे स्तम्भोपमा दीयते । अस्य प्रासादस्य
चत्वारः स्तम्भाः । तद्यथा
Jain Education International
एकस्तावत् शास्त्रवार्तासमुच्चयः अस्योपरि वर्धमानतपोनिधिपूज्यभुवनभानुसूरीश्वरैः पंडितवर्यश्रीबदरीनाथशुक्लस्य पार्श्वे समग्रगन्थस्यानुवादं कारयित्वा प्रकाशितं दिव्यदर्शनद्रस्टेन ॥
द्वितीयस्तम्भ: सन्मतितर्कमहार्णवः । अस्य ग्रन्थस्योपरि पूज्यगुरुदेव श्रीभुवनभानुसूरीश्वरैः सिद्धान्तहार्दज्ञपूज्याचार्यजयघोषसूरीश्वरशिष्य-तार्किकशिरोमणि - पूज्याचार्य श्रीजयसुन्दरसूरेः पार्श्वेऽनुवादं कारयित्वा कलिकुंडस्थदिव्यदर्शनट्रस्टेन प्रकाशितः ॥
तृतीयस्तम्भो द्वादशारनयचक्रग्रन्थः । स्वनामधन्यविद्वद्वर्यमुनिश्रीजम्बुविजयप्रवरैः अनेक भाषामधीत्यास्य ग्रन्थस्य संशोधनं सम्पादनञ्च कृत्वा प्रकाशितः ॥
For Personal & Private Use Only
www.jainelibrary.org