________________
न कान्तः, न प्रियः, न मान्यश्च ॥
एकान्तपक्षे तैः तैर्दार्शनिकैर्दत्तानि सर्वाण्यपि दूषणानि अनेकान्तपक्षे भूषणानि भवन्ति, यत एकान्तपक्षदूषणमेकमपि न विद्यतेऽत्र ॥
अन्तर्वर्षा (६)
यथा परस्परं विवदमानाः सर्वेऽपि राजानश्चक्रवर्त्तिनं समाश्रयन्ते, समाश्रिताश्च सर्वेऽपि समाधानेन वर्तन्ते सुखिनश्च भवन्ति, तथैवैकान्तवादिनः सर्वेऽपि विवदमानाः अनेकान्तचक्रवत्तिनः शरणं प्रतिपद्यमानाः समाधानं लभमानाः सुखिनो भवन्ति, नात्र संशयावकाशः ॥
एकान्तो ऽसत्यभाषकः ।
अनेकान्तः सत्यभाषकः ।
रामायणपाठावसरे यदि कोऽपि वक्ता एकान्तपक्षमादृत्यैवं वदेत् - 'रामः पिता एव' तदा किमेतत् सत्यवचनम् ? किं रामः पुत्रो नास्ति ? किं रामो भ्राता नास्ति ? अत्रावश्यमनेकान्तपक्षादरः कर्तव्यः । तदैव समाधानं स्यात् । यस्मिन् समये रामे लवकुशनिरूपित पितृत्वं वर्त्तते तस्मिन्नेव समये रामे लक्ष्मणनिरूपितभ्रातृत्वं सीतानिरूपितपतित्वमित्याद्यपि न विरूध्यते, स एवानेकान्तः ॥
दृश्यन्तेऽत्र स्याद्वादापरनामानेकान्तवादाख्यराजाधिराजस्य प्रशंसापरका: श्लोकाः अनेकशास्त्रेषु । तथाहि
उक्तञ्च अन्ययोगव्यवच्छेदद्वात्रिंशिकायाम्
“यदीयसम्यक्त्वबलात् प्रतीमो भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तव शासनाय ॥२१॥ प्रगदितश्च सन्मतितर्कप्रकरणे
"जेण विणा लोगस्स ववहारो सव्वहा न निव्वडइ । तस्स भुवणेक्कगुरुणो नमो अणेगंतवायस्स ॥१६६॥
अकलङ्केनापि प्रोक्तम्
Jain Education International
"श्रीमत्परमगम्भीरस्याद्वादामोघलाञ्छनम् । जीयाज्जैनेन्द्रचन्द्रस्य शासनं जिनशासनम् ॥
परमागमस्य बीजं निषिद्धजात्यन्धसिन्धुविधानम् । सकलनयविलसितानां विरोधमथनं नमाम्यनेकान्तम् ॥”
For Personal & Private Use Only
www.jainelibrary.org