________________
भनेति मत्पश सुवाइयो... ८८
©བ་འགག་
तस्याद्दोषापगमस्तमांसि जगति क्षीयन्त एव क्षणादध्वानो विशदीभवन्ति निबिडा निद्रा दृशोर्गच्छति । ) यस्मिन्नभ्युदिते प्रमाणदिवसप्रारम्भकल्याणिनी, प्रौढत्वं नयगीर्दधाति स रविजैनागमो नन्दतात् ॥४॥
- अध्यात्मसारः। गलन्नयकृतभ्रान्तिर्यः स्याद्विश्रान्तिसम्मुखः । स्याद्वादविशदालोकः, स एवाध्यात्मभाजनम् ॥५॥
- अध्यात्मोपनिषद् । यत्र सर्वनयालम्बिविचारप्रबलाग्निना। तात्पर्यश्यामिका न स्यात्, तच्छास्त्रं तापशुद्धिमत् ॥२९।।
___ - अध्यात्मोपनिषद् । अनेकान्तेऽप्यनेकान्तादनिष्ठैवमपाकृता। नयसूक्ष्मेक्षिकाप्रान्ते, विश्रान्तेः सुलभत्वतः ।।४२।।
- अध्यात्मोपनिषद् । नित्यानित्यानद्यनेकान्तशास्त्रं तस्माद्विशिष्यते । तद् दृष्ट्यैव हि माध्यस्थ्यं, गरिष्ठमुपपद्यते ॥६०॥
- अध्यात्मोपनिषद् । यस्य सर्वेषु समता, नयेषु तनयेष्विव। तस्यानेकान्तवादस्य, क्व न्यूनाधिकशेमुषी ॥६१॥ स्वतन्त्रास्तु नयास्तस्य, नांशाः किन्तु प्रकल्पिताः । रागद्वेषौ कथं तेषाम् दूषणेऽपि च भूषणे? ॥६२॥ अर्थे महेन्द्रजालस्य, दूषितेऽपि च भूषिते। यथा जनानां माध्यस्थ्यं, दुर्नयार्थे तथा मुनेः ॥६३।। दूषयेदज्ञ एवोच्चैः, स्याद्वादं न तु पण्डितः । अज्ञप्रलापे सुज्ञानां, न द्वेषः करुणैव तु ॥६४॥
- अध्यात्मोपनिषद् । प्रणिपत्यैकमनेकं केवलरूपं जिनोत्तमं भक्त्या। भव्यजनबोधनार्थं नृतत्त्वनिगमं प्रवक्ष्यामि ॥१॥
___ - लोकतत्त्वनिर्णयमूलम् । ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org