SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ भनेति मत्वर्श सुवायो... ८७ प्रादेशिकेभ्यः परशासनेभ्यः, पराजयो यत्तव शासनस्य । खद्योतपोतद्युतिडम्बरेभ्यो, विडम्बनेयं हरिमण्डलस्य ।। यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः । न विप्लवोऽयं तव शासनेऽभूदहो अधृष्या तव शासनश्रीः ।। ___ -अयोगव्यवच्छेदद्वात्रिंशिका। अम्भोराशेः प्रवेशे प्रविततसरितां सन्ति मार्गा इवोच्चैः; स्याद्वादस्यानुयोगे कति कति न पृथक् सम्प्रदाया बुधानाम् । शक्यस्वोत्प्रेक्षितार्थैररुचिविषयतां तत्र नैकोऽपि नेतुं, जेतुं दुर्वादिवृन्दं जिनसमयविदः किं न सर्वे सहायाः ।। - अष्टसहस्त्रीतात्पर्यविवरणम् । कुतकैर्ध्वस्तानामतिविषनैरात्म्यविषयैस्तवैव स्याद्वादस्त्रिजगदगदङ्कारकरुणा।। इतो ये नैरुज्यं सपदि न गताः कर्कशरुजस्तदुद्धारं कर्तुं प्रभवति न धन्वन्तरिरिपि ॥१०५॥ - न्यायखंडखाद्यमूलम् । ऐन्द्र श्रेणिनताय, प्रथमाननयप्रमाणरूपाय।। भूतार्थभासनाय, त्रिजगद्गुरुशासनाय नमः ॥१॥ ___ - मार्गपरिशुद्धिः। स्याद्वादास्वादपराः प्रतियन्ति हि परमतानि विरसानि। नहि माकन्दमुकुलभुग्, नन्दति पिचुमन्दतरुषु पिकः ।।३।। - मार्गपरिशुद्धिः । इति विविधभङ्गगहने, सुदुस्तरे मार्गमूढदृष्टीनाम् । गुरवो भवन्तु शरणं, प्रबुद्धनयचक्रसंचाराः ।।८।। __- हिंसाष्टकमूलम्। जिनैर्नानुमतं किंचि-निषिद्धं वा न सर्वथा। कार्ये भाव्यमदम्भेनेत्येषाऽऽज्ञा पारमेश्वरी ॥२०॥ - अध्यात्मसारः। पूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदास्थारसैस्तत्त्वज्ञानफलः सदा विजयते स्याद्वादकल्पद्रुमः । एतस्मात् पतितैः प्रवादकुसुमैः षड्दर्शनारामभूर्भूयः सौरभमुद्वमत्यभिमतैरध्यात्मवार्तालवैः ।।२।। अध्यात्मसारः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005532
Book TitleAnekantjaipataka Part 01
Original Sutra AuthorN/A
AuthorBhavyasundarvijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages370
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy