________________
भनेत मत्पर्श सुवाच्यो... ८६
प्रत्यक्षद्वयदीप्तनेत्रयुगलस्तर्कस्फुरत्केसरः, शाब्दव्यात्तकरालवक्त्रकुहरः सद्धेतुगुञ्जारवः । प्रक्रीडन्नयकानने स्मृतिनखश्रेणीशिखाभीषणः, संज्ञावालधिबन्धुरो विजयते स्याद्वादपञ्चाननः ।।
- स्याद्वादरत्नाकरः ।
भई मिच्छदंसणसमूहमइअस्स अमयसारस्स। जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स ।।
- सन्मतितर्कप्रकरण । स्याच्छब्दार्थलसद्रसोद्भवभवा द्रव्यादिभिर्भास्वती, स्वान्यद्रव्यचतुष्टयैक्यकलिता सार्वोक्तिभिः शाश्वती। सत्सामान्यविशेषभावललिता स्यात्सप्तभङ्गावली, धार्या सद्भिरियं सुखैककृमिला स्याद्वादमुक्तावली ।।
- जैनस्याद्वादमुक्तावली परस्पराक्षेपविलुप्तचेतसः, स्ववादपूर्वापरमूढनिश्चयान्। समीक्ष्य तत्त्वोत्पथिकान् कुवादिनः कथं पुमान् स्याच्छिथिलादरस्त्वयि ॥
- अन्ययोगव्यवच्छेदद्वात्रिंशिका दव्वट्ठयाए निच्चो, होइ अणिच्चो अ नयमए बीए। एगत्तो मिच्छत्तं जिणाण आणा अणेगंता ।।
___- तीर्थोद्गारिकप्रकीर्णकम् । सिद्धं सिद्धत्थाणं ठाणमणोवमसुहमुवगयाणं। कुसमयविसासणं सासणं जिणाणं भवजिणाणं ।
- सन्मतितर्कप्रकरणम् । प्रतिक्षणोत्पादविनाशयोगिस्थिरैकमध्यक्षमपीक्ष्यमाणः । जिन ! त्वदाज्ञामवमन्यते यः स वातकी नाथ ! पिशाचकी वा ।।
- अन्ययोगव्यवच्छेदद्वात्रिंशिका । अन्योन्यपक्षप्रतिपक्षभावाद् यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन् न पक्षपाती समयस्तथा ते ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org