________________
(८५)
स्याद्वादसूक्तामृतम्
Oमनेति महत्वश सुवाश्यो
सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसम्पदः । तवैव ताः पूर्वमहार्णवोत्थिता जगत्प्रमाणं जिनवाक्यविपुषः ॥
- सिद्धसेनद्वात्रिंशिका। नयास्तव स्यात्पदसत्त्वलाञ्छिता रसोपविद्धा इव लोहघातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिप्पः ॥
- बृहत्स्वम्भूस्तोत्रम्। आत्मानं भवभोगयोगसुभगं विस्पष्टमाचष्टे यो, यः कर्मप्रकृति जगाद जगतां बीजं जगच्छर्मणे। नद्योऽब्धाविव दर्शनानि निखिलान्यायान्ति यदर्शने, तं देवं शरणं भजन्तु भविनः स्याद्वादविद्यानिधिम् ॥
- स्याद्वादकल्पलता। गंभीरं सव्वओभदं सव्वभावविभावणं । धण्णा जिणाहितं मग्गं सम्मं वेदेति भावओ।
__ - ऋषिभाषितसूत्रम्। जिणवयणमोदगस्स उ रत्तिं च दिवा य खज्जमाणस्स। तित्तिं बुहो गच्छइ, हेउसहस्सोवगूढस्स ॥
- ध्यानशतकम्।
उत्सर्पद्व्यवहारनिश्चयकलाकल्लोलकोलाहलत्रस्यदुर्नयवादिकच्छपकुलभ्रश्यत्कुपक्षाचलम् । उद्यधुक्तिनदीप्रवेशसुभगं स्याद्वादमर्यादया, युक्तं श्रीजिनशासनं जलनिधि मुक्त्वा परं नाश्रये ।।
-अध्यात्मसारः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org