SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ अनेडांत महत्त्वदर्श सुवाक्ष्यो... ८९ लोकक्रियात्मतत्त्वे, विवदंते वादिनो विभिन्नार्थं । अविदितपूर्वं येषां स्याद्वादविनिश्चितं तत्त्वम् ॥४१॥ - लोकतत्त्वनिर्णयमूलम् । विना यं लोकानामपि न घटते संव्यवहृतिः, समर्था नैवार्थानधिगमयितुं शब्दरचना || वितण्डा चण्डाली स्पृशति च विवादव्यसनिनं, नमस्तस्मै कस्मैचिदनिशमनेकान्तमहसे ॥४॥ अनेकांतवादमाहात्म्यविंशिकामूलम् । अनेकान्तं वादं यदि सकलनिर्वाहकुशलं, मतानि स्पर्धन्ते नयलवसमुत्थानि बहुधा ॥ तदा किं नो भावी बहुलकलिकौतूहलवशाद्, घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः ॥६॥ अनेकांतवादमाहात्म्यविंशिकामूलम् । महावाक्यार्थजं सूक्ष्मयुक्त्या स्याद्वादसंगतम् । चिन्तामयं विसर्पि स्यात्तैलबिन्दुरिवाम्भसि ॥१२॥ स्वामिनो वचनं यत्तु संवादि न्यायसंगतम् । कुतर्कध्वान्तसूर्यांशुर्महत्त्वं तद्यदभ्यधुः ॥१२॥ पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ॥३॥ - द्वात्रिंशद्वात्रिंशिकामूलम् । स्वतोऽपुमर्थताप्येवमिति चेत् कर्मणामपि । शक्त्या चेन्मुख्यदुःखत्वं स्याद्वादे किं नु बाध्यताम् ॥२३॥ स्वतः प्रवृत्तिसाम्राज्यं किं चाखंडसुखेच्छया निराबाधं च वैराग्यमसंगे तदुपक्षयात् ॥२४॥ - द्वात्रिंशद्द्वात्रिंशिकामूलम् । - द्वात्रिंशद्वात्रिंशिकामूलम् । यत्र स्याद्वादविद्या परमततिमिरध्वान्तसूर्यांशुधारा, निस्ताराज्जन्मसिन्धोः शिवपदपदवीं प्राणिनो यान्ति यस्मात् । अस्माकं किं च यस्माद्भवति शमरसैर्नित्यमाकंठतृप्तिजैनेन्द्रं शासनं तद्विलसति परमानन्दकन्दांबुवाहः ॥३२॥ स्याद्वादस्य सकलनयसमूहात्मकवचनस्य, Jain Education International - द्वात्रिंशद्वात्रिंशिकामूलम् । - द्वात्रिंशद्वात्रिंशिकामूलम् । For Personal & Private Use Only www.jainelibrary.org
SR No.005532
Book TitleAnekantjaipataka Part 01
Original Sutra AuthorN/A
AuthorBhavyasundarvijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages370
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy