________________
८७
પરિશિષ્ટઃ ભાવતીર્થ – રત્નત્રયી
नुष्ठानाराधनमिति। कथं पुनरियं प्रधानभावशुद्धिरिति?, उच्यते, एभिर्दर्शनादिभिः शुद्धेर्यस्माद्विशुद्धमलो भवति साधुः, कर्ममलरहित इत्यर्थः, तेन च मलेन "विशुद्धो" मुक्तो भवति सिद्ध इत्यतः प्रधानभावशुद्धिर्यथोक्तान्येव दर्शनादीनीति गाथार्थः । ।२८८।।
(दशवैकालिकनियुक्ति, श्लोक-२८८, मूल, आ. श्री हरिभद्रसूरिजी टीका) अथ मार्गदूषणामाहनाणादि तिहा मग्गं, दूसयए जे य मग्गपडिवन्ना । अबुहो पंडियमाणी, समुट्ठितो तस्स घायाए ||१३२३।। ज्ञानादिकं "त्रिधा" त्रिविधं पारमार्थिक मार्ग स्वमनीषिकाकल्पितैर्जातिदूषणैर्दूषयति, ये च तस्मिन् मार्गे प्रतिपन्नाः साध्वादयस्तानपि दूषयति, "अबुधः" तत्त्वपरिज्ञानविकलः, "पण्डितमानी" दुर्विदग्धः, "समुत्थितः" उद्यतः "तस्य" पारमार्थिकमार्गस्य "घाताय" निर्लोठनायेति, एषा मार्गदूषणा।।१३२३।।
(बृहत्कल्पसूत्र भाष्यगाथा-१३२३, मूल-टीका) यच्च तेन महानसनियुक्तेन पर्यचिन्ति यथा- कथं पुनरेष रोरो नीरोगः स्यात्? ततो मनसि निरूपयता तेन पुनः पर्यकल्पिअये विद्यत एवास्य रोगनिराकरणोपायः, यतोऽस्ति मम चारु भेषजत्रितयं, तद्यथा-एकं तावद्विमलालोकं नाम परमाञ्जनं, तद् विधानेन प्रयुज्यमानं समस्तनेत्ररोगानाशयति, सूक्ष्मव्यवहितातीतभावभावविलोकनदक्षं चक्षुः संपादयति, तथा द्वितीयं तत्त्वप्रीतिकरं नाम सत्तीर्थोदकं, तत् पुनर्विधिना स्वाद्यमानं समस्तगदवाततानवं विधत्ते, दृष्टेश्चाविपरीतार्थग्रहणचतुरतां कुरुते, विशेषतः पुनरुन्मादमुद्दलयति, तृतीयं पुनरेतदेव कन्यकोपनीतं महाकल्याणकं नाम परमानं, एतत्पुनः सम्यग्निषेव्यमानं निःशेषरोगगणं समूलकाषं कषति, तथा पुष्टिं जनयति, धृतिं वर्द्धयति, बलमुज्ज्वलयति, वर्णमुत्कर्षयति, मनःप्रसादं संपादयति, वयस्तम्भं विधत्ते, सवीर्यतां करोति, और्जित्यं प्रवणयति, किम्बहुना? अजरामरत्वमपि निःसन्देहमेतत्सन्निधापयति, तस्मादनेनौषधत्रयेण सम्यगुपक्रम्यैनं तपस्विनं व्याधिभ्यो मोचयामीति तेन मनसि सिद्धान्तः स्थापितः तदेतत्सद्धर्माचार्योऽपि जीवगोचरं समस्तं चिन्तयत्येव, तथाहि-यदा निश्चितं तेन प्राक्प्रवृत्तिदर्शनेन यथा भव्योऽयं जीवः, केवलं प्रबलकर्मकलाऽऽकुलितचेताः सन्मार्गात्परिभ्रष्टः । तदा भवति गुरोरयमभिप्रायः यथा- कथं पुनरेषोऽस्माद्रोगस्थानीयात् कर्मजालान्मोक्ष्यते? पर्यालोचयतश्च तात्पर्यपर्याकुलेन चेतसा सुदूरमपि गत्वा पुनरेतदेव ज्ञानदर्शनचारित्ररूपत्रयं भेषजत्रयकल्पं तन्मोचनोपायः प्रतिभासते, नापरः। तत्रेह ज्ञानमञ्जनं विज्ञेयं, तदेव परिस्फुटदर्शितया विमलालोकमुच्यते, तदेव च नयनगदसन्दोहकल्पमज्ञानमुन्मूलयति, तदेव च भूतभवद्भाविभाव-स्वभावाविर्भावनचतुरं जीवस्य विवेकचक्षुः संपादयति। दर्शनं पुनः सत्तीर्थोदकं बोद्धव्यं, तदेव जीवादिपदार्थ-गोचरश्रद्धानहेतुतया तत्त्वप्रीतिकरमभिधीयते, यतश्च तदुदयसमये सर्वकर्मणामन्तःसागरोपमकोटीकोटिमात्रमवतिष्ठते, समुत्पन्नं पुनः प्रतिक्षणं तत्तानि तनूकुरुते, तेन समस्त-गदतानवकारकं, कर्मणामिह रोगकल्पत्वात्, तदेव दृष्टिप्रख्यस्य ज्ञानस्य यथावस्थितार्थग्रहणचातुर्यमाधत्ते, तदेव च महोन्माददेश्यं मिथ्यात्वमुद्दलयतीति। चारित्रं पनरत्र परमान्नमवगन्तव्यं, तस्यैव सदनष्ठानं धर्मः सामायिकं विरतिरित्यादयः पर्यायाः, तदेव मोक्षलक्षणमहाकल्याणाव्यवहितकारणतया महाकल्याणकमिति गीयते, तदेव च रागादिमहाव्याधिकदम्बकं समूलघातं हन्ति, तदेव च वर्णपुष्टिधृतिबलमनःप्रसादौर्जि-त्यवयःस्तम्भसवीर्यतातुल्यानात्मगुणान् समस्तानाविर्भावयति, तथाहितज्जीवे वर्तमानं प्रभवो धैर्यस्य कारणमौदार्यस्याऽऽकरो गाम्भीर्यस्य, शरीरं प्रशमस्य, स्वरूपं वैराग्यस्यातुलहेतु:ोत्कर्षस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org