________________
૮૨
પરિશિષ્ટ : ભાવતીર્થ : રત્નત્રયી इति। तीर्थकरोऽपि चैनं सङ्घ तीर्थसंज्ञितं नमति धर्मकथादौ गुरुभावत एव "नमस्तीर्थाय" इति वचनादेतदेवमिति।।२६।।
___ (प्रतिमाशतक, श्लोक-६७ टीका अन्तर्गत स्तवपरिज्ञा श्लोक-२६, मूल-टीका) + सम्मत्तनाणचरणानुच्चाइमाणाणुगं च जं जत्थ। जिणपन्नत्तं भत्तीए पूअए तं तहाभावं । ।३४१।। केसिंचि अ आएसो
दंसणनाणेहिं वट्टए तित्थं । वुच्छिन्नं च चरित्तं वयमाणे होइ पच्छित्तं ।।३४२ ।। दुप्पसहंतं चरणं जं भणियं भगवया इहं खित्ते। आणाजुत्ताणमियं न होइ अहुणोत्ति वामोहो।।३४३।।
(संबोधप्रकरणम् गुरुस्वरूपअधिकार) भावे तित्थं संघो सुयविहियं तारओ तहिं साहू। नाणाइतियं तरणं तरियव्वं भवसमुद्दोऽयं । ।१०३२।। भावे भावविषयं श्रुतविहितं श्रुतप्रतिपादितं सङ्घस्तीर्थम्, तथा च भगवत्यामुक्तम्, "तित्थं भंते! तित्थं तित्थयरे तित्थं? । गोयमा! अरहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवन्नो समणसंघो" इति। इह च तीर्थसिद्धौ तारकादयो नियमादाक्षिप्यन्त एव। तत्रेह संघे तीर्थे तद्विशेषभूत एव तारकः साधुः, ज्ञान-दर्शन-चारित्रत्रिकं पुनस्तरणम्, तरणीयं तु भवसमुद्रः । इह च तीर्थतारकादीनां परस्परतोऽन्यता, अनन्यता च विवक्षावशतो बोद्धव्या। तत्र सम्यग्दर्शनादिपरिणामात्मकत्वात् संघस्तीर्थम्, तत्रावतीर्णानामवश्यं भवोदधितरणात्। तद्विशेषभूतत्वात् तदन्तर्गत एव साधुस्तरीता, सम्यग्दर्शनाद्यनुष्ठानात्। साधकतमत्वेन तत्करणरूपतामापन्नं ज्ञानादित्रयं तु तरणम्। तरणीयं त्वौदयिकादिभावपरिणामात्मकः संसारसमुद्र इति।।१०३२।।
(विशेषावश्यकभाष्य, श्लोक-१०३२, मलधारी हेमचंद्रसूरिजी टीका) + तह कोह-लोह-कम्ममयदाह-तण्हा-मलावणयणाइं। एगतेणच्चंतं च कुणइ य सुद्धिं भवोघाओ।।१०३४।।
तथा; क्रोधश्च, लोभश्च, कर्म च तन्मयास्तत्स्वरूपा यथासंख्यं ये दाह-तृष्णा-मलाः । क्रोधो हि जीवानां मनःशरीरसंतापजनकत्वाद् दाहः, लोभस्तु विभवविषयपिपासाऽऽविर्भावकत्वात् तृष्णा, कर्म पुनः पवनोद्भूतश्लक्ष्णरजोवत् सर्वतोऽवगुण्ठनेन मालिन्यहेतुत्वाद् मलः; अतस्तेषां क्रोध-लोभ-कर्ममयानां दाहतृष्णा-मलानां यदेकान्तेनाऽत्यन्तं चापनयनानि करोति। तथा, कर्मकचवरमलिनाद् भवौघात् संसारापारनीरप्रवाहात् परकूलं नीत्वा शुद्धिं कर्ममलापनयनलक्षणां यतः करोति, तेन तत्संघलक्षणं भावतस्तीर्थमिति पूर्वसंबन्धः । अपरमपि नद्यादितीर्थं तुच्छा-ऽनैकान्तिकाऽऽत्यन्तिकदाह-तृष्णा-मलापनयनं विदधाति, एतत्तु संघतीर्थमनादिकालालीनत्वेनानन्तानां दाह-तृष्णामलानामैकान्तिकमात्यन्तिकं चापनयनं करोति; अतः प्रधानत्वाद् भावतीर्थमुच्यते, नद्यादितीर्थं त्वप्रधानत्वाद् द्रव्यतीर्थमिति भावः । ।१०३४ ।।
(विशेषावश्यकभाष्य, श्लोक-१०३४, मलधारी हेमचंद्रसूरिजी टीका) जया णं गोयमा! इणमो पच्छित्तसुत्तं वोच्छिज्जिहिइ, तया णं चंदाइच्चा गहा-रिक्खा-तारगाणं सत्त-अहोरत्ते तेयं णो विप्फुरेज्जा। इमस्स णं वोच्छेदे गोयमा! कसिणस्स संजमस्स अभावो, जओ णं सव्व-पाव-निट्ठवगे चेव पच्छित्ते सव्वस्स णं तवसंजमाणुट्ठाणस्स पहाणमंगे परम-विसोही-पए पवयणस्सावि णं नवणीय-सारभूए पण्णत्ते।
(महानिशीथसूत्र पच्छित्तसुत्त नाम सप्तम अध्ययन) दंसणाणचरित्ते तवोविसुद्धी पहाणमाएसो। जम्हा उ विसुद्धमलो तेण विसुद्धो हवइ सुद्धो।।२८८ ।। व्याख्या-"दर्शनज्ञानचारित्रेषु" दर्शनज्ञानचारित्रविषया तथा तपोविशुद्धिः "प्राधान्यादेश" इति यद्दर्शनादीनामादिश्यमानानां प्रधानं सा प्रधानभावशुद्धिः, यथा दर्शनादिषु क्षायिकाणि ज्ञानदर्शनचारित्राणि, तपःप्रधानभावशुद्धिः-आन्तरतपोऽ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org