________________
પરિશિષ્ટ : ભાવતીર્થ - રત્નત્રયી
પરિશિષ્ટ : ભાવતીર્થ - રત્નત્રયી
1
→ सव्वण्णूहिं परूविय, छक्काय महव्वया य समिईओ । स च्चेव य पन्नवणा, संपइकाले वि साहूणं ||२०५ ।। " सव्वणूहिं "ति । पूर्वसाधूनां सर्वज्ञैश्चारित्रप्रतिपत्तये तद्रक्षणाय च षट्काया महाव्रतानि समितयश्च प्ररूपिताः, सैव च प्रज्ञापना सम्यगाराध्यतया सम्प्रतिकालेऽपि साधूनामस्ति, तथा च षट्कायपालनादिव्यवहारचारित्रस्य स्वसंवेदनसिद्धत्वमेवेति भावः । । २०५ ।।
८१
(गुरुतत्त्वविनिश्चय, प्रथम उल्लास, श्लोक - २०५, टीका) तित्थं चाउव्वण्णे, संघे ठविअम्मि होइ तत्थ पुणो । तित्थम्मि तिण्णि पढमा, तित्थातित्थे उ अंततियं । ।६९ । । "तित्थं"ति। तीर्यतेऽनेन संसारसागर इति "तीर्थं" प्रवचनम्, तदाधारत्वाच्च चतुर्विधः श्रमणसङ्घोऽपि तीर्थमुच्यते, तत इदमाह-चतुर्वर्णे सङ्घे स्थापिते सति तीर्थं भवति । तत्र पुनर्विचार्यमाणे "त्रयः प्रथमाः" पुलाकबकुशप्रतिसेवनाकुशीलाः निर्ग्रन्थास्तीर्थे भवन्ति। "अन्त्यत्रिकं तु" कषायकुशीलनिर्ग्रन्थस्नातकाख्यं तीर्थातीर्थयोर्भवति । अतीर्थे च भवन्त एते तीर्थकराः स्युः प्रत्येकबुद्धा वा, तदुक्तं भगवत्याम् - "पुलाए णं भंते! किं तित्थे होज्जा अतित्थे होज्जा ? गोयमा ! तित्थे होज्जा णो अतित्थे होज्जा । एवं बउसे वि पडिसेवणाकुसीले वि । कसायकुसीले पुच्छा, गोयमा! तित्थे वा हज्जा अतित्थे वा होज्जा । जइ अतित्थे होज्जा किं तित्थकरे होज्जा पत्ते अबुद्धे होज्जा ? गोयमा ! तित्थकरे वा होज्जा पत्तेय बुद्धे वा होज्जा । एवं णियंठे वि, एवं सिणाए वित्ति । । ६९ ।।
(गुरुतत्त्वविनिश्चय, चतुर्थ उल्लास, श्लोक - ६९ मूल - टीका ) → सव्वेसु वि तित्थेसुं, होंति पुलागाइया नियंठ त्ति । खुड्डागणियंठिज्जे, णिदंसियं तित्थदारम्मि ।।७० ।। "सव्वेसु वि"त्ति । सर्वेष्वपि तीर्थेषु पुलाकादयो निर्ग्रन्था भवन्तीति क्षुल्लकनिर्ग्रन्थीयेऽध्ययने तीर्थद्वारे निदर्शितम् । एतद्विवरणे चेत्थमुक्तम्-"तीर्थमिदानीम् सर्वेषां तीर्थकराणां तीर्थेषु भवन्ति । एके त्वाचार्या मन्यन्ते - पुलाकबकुशप्रतिसेवनाकुशीलास्तीर्थे नित्यम्, शेषास्तु तीर्थेऽतीर्थे वा " इति ।। ७० ।।
(गुरुतत्त्वविनिश्चय, चतुर्थ उल्लास, श्लोक ७० मूल - टीका)
→ भावलिङ्गस्यान्यत्रापि सत्त्वमुपपादयन्नाह
सोहणमत्थप, अण्णत्थ वि होइ आयकज्जकरं । तं दिट्ठिवायमूलं, पमाणमिय बिंति आयरिआ । ७२ ।। "जं सोहणं"ति। यत् "शोभनं" परमार्थरमणीयं "अर्थपदं" यमनियमादिवचनं "अन्यत्रापि " जैनग्रन्थातिरिक्तग्रन्थेऽपि "आत्मकार्यकरं" योगदृष्टिप्राधान्येनासद्ग्रहनिरासद्वारा भावसम्यक्त्वप्राप्तिरूपाध्यात्मप्रसादकरं तत् पारम्पर्येण दृष्टिवादमूलं सत् प्रमाणम्, भागवतभावलिङ्गरूपत्वादन्येषामीदृशार्थस्य स्वातन्त्र्येण ज्ञानायोगात् । इत्थं चान्यत्रापि भावलिङ्गसम्भव इत्यस्माकं "आचार्याः" हरिभद्रादयो ब्रुवते, व्यक्तं चैतदुपदेशपदयोगदृष्टिसमुच्चयादौ, समर्थितं चास्माभिरपि द्वात्रिंशिका - प्रकरणादाविति नेह भूयान् प्रयासः । । ७२ ।।
(गुरुतत्त्वविनिश्चय, चतुर्थ उल्लास, श्लोक - ७२ मूल- टीका) → गुणसमुदाओ संघो पवयणतित्थंति होइ एगट्ठा। तित्थयरो वि य एवं णमइ गुरुभावओ चेव ।। २६ ।। गुणसमुदायः सङ्घोऽनेकप्राणिस्थसम्यग्दर्शनाद्यात्मकत्वात् । प्रवचनं तीर्थम् इति भवन्त्येकार्थिकाः - एवमादयोऽस्य शब्दा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org