________________
४७
પરિશિષ્ટ - ધર્મતીર્થનો મહિમા
भिधेयमभिधीयते तदा झटित्येव प्रमदभरभृतस्तत् प्रतिपद्यत एव तथाऽबुधस्यापि निश्चयव्यवहारविदा सद्भूतासद्भूतव्यवहारमास्थाय अतति दर्शन-ज्ञान-चारित्राणीत्यभेदात्मके वस्तुनि भेदमुत्पाद्य, यथा वा अतति तांस्तान् स्थावरजङ्गमपर्यायानिति विकारिणं प्रदाभिधेयं प्रतिपाद्यते तदा झटित्येव प्रमदभरभृतस्तत् प्रतिपद्यते। यतो ह्यनन्तधर्मात्मकस्य वस्तुनोऽनभिज्ञस्य विनेयस्य धर्म-धर्मिणोनिश्चयतोऽभेदेऽपि व्यपदेशतो भेदमुत्पाद्य केनचिद् धर्मेणानुशासतः सूरै(रे)र्व्यवहारणेव दर्शनं ज्ञानं चारित्रमित्युपदेशः संजाघटीति । यद्वक्ष्यते व्यवहारेण तु ज्ञानादीनि भिन्नानि चेतनादिति, यथा वा त्रस-स्थावरादयो य एते पर्यायास्ते सर्वेऽपि निश्चयेन सहजविजृम्भितानन्तज्ञानशक्तिहेतुकसर्वदाऽनपायिनिर्विकारस्वाभाविकजीवत्वभृतोऽप्यस्यैवानाद्यविद्यादूषिततयोद्भवन्तः कार्यरूपा इति मिश्रपरिणामात्मकेषु तेषु जीवत्वं प्रतिपाद्यते तदा तेषु जीवोऽयमिति बुद्ध्या करुणया सङ्घट्टन-मर्दन-हिंसनादीनि परिहरतः संसारनिस्तारो भवतीति महानुपकारः कृतः स्यात्। तीर्थप्रवृत्तेश्चैवमेव व्यवस्थितत्वादित्यनुपदमेव वक्ष्यते। . . .
प्रथम बत्रीसी, श्लोक ६ टीका + तीर्थप्रवृत्त्यर्थमयं फलेग्रहिस्त्रिकालविद्भिर्व्यवहार उक्तः। पर(रः) पुनस्तत्त्वविनिश्चयाय नयद्वयात्तं हि जिनेन्द्रदर्शनम्।।८।। व्याख्या-त्रिकालविद्भिः सर्वज्ञैः । अयं व्यवहार: तीर्थप्रवृत्त्यर्थं तीर्थं चातुर्वर्ण्यसङ्घश्रमणस्तस्य प्रवृत्तिस्तदर्थम्। फलेग्रहिः फलवान् उक्तः। अयमर्थ:- व्यवहारो हि मोक्षोपायप्रवृत्त्यङ्गत्वाद् दर्शयितुमवश्यं तादृगेव। तथाहि-निश्चयेन ह्यात्मनः शरीराद् भेददर्शनेऽमूर्तत्वेन हिंसाऽभावात् त्रस-स्थावराणां भस्मन इव निःशङ्कमुपमर्दनप्रवृत्तेर्भवत्येव बन्धाभावः । व्यवहारनयेन तु क्षीरोदकवच्छरीरेण सह लोलीभावमापन्नस्यात्मनो मूर्तत्वाङ्गीकाराद्य एते एकेन्द्रियादयश्चतुर्दशभूतग्रामास्ते जीवा इति शरीरेण सहाभेदप्रदर्शने शरीरवधे तद्वधस्य कथञ्चिदिष्टत्वाद् भवत्येव प्रत्यवायः। अतस्तत्परिहारार्थ मोक्षोपायप्रज्ञापनमर्हदेवानां सङ्गच्छते। अन्यथा तद्वैयर्थ्यांपत्तेः। तदधिकरणं हि चातुर्वर्ण्यम् क्षयोपशमशक्तिसव्यपेक्षत्वाच्चातुर्वर्ण्यप्रवृत्तेः। किञ्च, बद्धस्पृष्टत्वादीनां भावानां व्यवहारनयेनैव प्रज्ञाप्यमानानां साधुता सङ्गच्छते, निश्चयेन तु निर्लेपत्वादात्मनो निर्विषयतामेवैते आस्तिघ्नुवीरन्। किञ्च, रागादिपरिणामेभ्यः परमार्थतो भेददर्शने तन्मृजासाधनसाम्यमूलकयम-नियमाद्युपायप्रदर्शनमपि व्यर्थमेव स्यादिति। व्यवहारनये तु सर्वमपीदं प्रज्ञाप्यमानं सङ्गच्छत इति सुष्ठूक्तम्-'तीर्थप्रवृत्त्यर्थम्' इति।
प्रथम बत्रीसी, श्लोक ८ मूल-टीका २ त्रिषष्टिशलाकापुरुष चरित्र पर्व - १, जातसंसारवैराग्या, दीक्षया स्वामिनो जनाः। शेषामात्रमदोऽगृह्णनिच्छादानेऽपि नाऽधिकम्।।२५ ।।
सर्ग - ३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org