________________
પરિશિષ્ટ - ધર્મતીર્થનો મહિમા
+ इति दुःखाकुलां देवीं, मरुदेवीमुदञ्जलिः । वाचाऽवोचन्नवसुधासध्रीच्या वसुधाधवः ।।५०४ । । स्थैर्याद्रेर्वज्रसारस्य, महासत्त्वशिरोमणे: । तातस्य जननी भूत्वा, किमेवं देवि ! ताम्यसि? ।।५०५ ।। तातस्तरीतुं सहसा, संसाराम्भोधिमुद्यतः। कण्ठबद्धशिलाप्रायान्, स्थाने तत्याज नः प्रभुः ।।५०६ ।। वने विहरतो भर्तुः, प्रभावाच्छ्वापदा अपि। नोपद्रवं कर्तुमलं, पाषाणघटिता इव ।।५०७ ।। क्षुत्पिपासातपप्राया, दुःसहा ये परीषहाः । सहायाः खलु तातस्य, ते कर्मद्वेषिसूदने।।५०८ ।। न चेत् प्रत्येषि मद्वाचा, प्रत्येषसि तथाऽपि हि। तातस्य न चिराज्जातकेवलोत्सववार्त्तया ।।५०९ । ।
सर्ग-३ + जज्ञे साधुविच्छेदोऽन्तर्नवमदशमाहतोः । एवं सप्तस्वन्तरेषु, जिनानामेष वृत्तवान्।।२५५ ।। वेदाश्चाऽर्हत्स्तुतियतिश्राद्धधर्ममयास्तदा। पश्चादनार्याः सुलसायाज्ञवल्क्यादिभिः कृताः।।२५६।।
सर्ग-६
धर्मबिन्दु टीका तीर्थोपष्टम्भलक्षणं परार्थं
अध्याय-६, सूत्र - ५ टीका
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org